SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ९६ [ पार्श्वाभ्युदये अमी सारङ्गाः, ( बद्धौत्सुक्यात् ) सरसविदलत्कन्दलै: ( अनुकृष्टाः ) अनुकुञ्जं ( अविरलं सम्पतन्तः अमी सारङ्गाः ), ( बद्धौत्सुक्यात् ) दग्धारण्यस्थलपरिमलैः ( अनुकृष्टाः दग्धारण्यस्थलेषु अविरलं सम्पतन्तः अमी सारङ्गाः ) जललवमुचः ते मार्गे यथास्वं सूचयिष्यन्ति । पुष्पेत्यादि । बद्धौत्सुक्यात् सञ्जातत्कण्ठ्यात् । बद्धं सञ्जातं च तत् औत्सुक्यं औत्कण्ठ्यं च बद्धौत्सुक्यं । तस्मात् हेतोः । पुष्पामोदैः कुसुमगन्धैः । पुष्पाणामामोदाः । तैः । अनुकृष्टाः आकृष्टाः । वनान्ते वनमध्यप्रदेशे । अविरलं निरन्तरं सपतन्तः उड्डीय गच्छन्तः । अमी ते । सारङ्गाः भ्रमराः । सरसविद लत्कन्दलैः । विदलन्तः प्रादुर्भवन्तश्च ते कन्दलाः नवाङ्कुराः विदलत्कन्दलाः । सरसाश्च ते विदलत्कन्दलाश्च । तैः । अनुकृष्टाः । अनुकुञ्जं कुञ्जेषु । ' झि: सुन् -' इति विभक्त्यर्थे हसः । अविरलं सम्पतन्तः अमी सारङ्गाः कुरङ्गाः । दग्धारण्यस्थलपरिमलैः दावदग्धवनस्थलपरिमलैः । दग्धानि दावदग्धानि अरण्यस्थलानि दग्धारण्यस्थलानि । तेषां परिमलैः । अनुकृष्टाः 1 अविरलं सम्पतन्तः अमी सारङ्गाः चातकाः । जललवमुचः सलिलकणवर्षुकस्य । जललवान् मुञ्चतीति जललवमुक् । क्विप् । ते तव मार्ग अध्वानं यथास्वं यथोचित सूचयिष्यन्ति पिशुनयिष्यन्ति । वनान्ते सम्पतन्तो भृङ्गाः, कुञ्जेषु सम्पतन्तः कुरङ्गाः, दग्धारण्येषु सम्पतन्तश्च चातकाः मेघजललवाकृष्टाः तत्र तत्र स्थानेषु ते गतिं विशुनयिष्यन्तीति भावः । Those bees, with their eagerness roused to action, flying in collections into the interior of forests on account of their being attracted by the fragrance of flowers, those antelopes, (with their eagerness roused to action), rushing into the bowers on account of their being attracted by the fresh sprouts shooting out, those Chataka birds, (with their eagerness roused to action), running towards the burnt-up forests. owing to their being attracted by the fragrant odours of the burnt up forests, would be ascertaining ( lit. indicating ) in accordance with. their capacities, the path of you discharging drops of water. गम्भीरत्वं यदिदमधुना लक्ष्यते ध्यानहेतोः सङ्क्षोभाणां विरचनशतैरप्यधृष्यं मदीयैः । तद्दृष्ट्वाऽहं तव घनतया मान्द्यमेवाऽतिधैर्याद् उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः ॥ ८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy