SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] बक्षेप नीतमपि च प्रेक्ष्य तेषां सलीलं दुग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः ॥ ८३ ॥ अन्वय :- अनुवनं उन्मदानां केकिनां केकाध्वनिं श्रुत्वा अपि च तेषां सलीलं बर्हक्षेप नटितं प्रेक्ष्य दग्धारण्येषु च उर्व्याः अधिकसुरभिं गन्धं आघ्राय त्वां अकाल आसन्न सपदि ज्ञातुं पथिकाः अर्हन्ति । 1 त्वमित्यादि । अनुवनं वनेषु । ' झिः सुब् - ' इत्यादिना विभक्त्यर्थे हसः । उन्मदानां उन्मत्तानां आनन्दकन्दलितस्वान्तानां वा । उद्गतः मदः गर्वः हृर्षः वा येषां । तेषां । केकिनां मयूराणां । केका ध्वनिविशेषः अस्त्येषामिति केकिनः । केकाध्वनिं मायूरं ध्वनिं । केका एव ध्वनिः केकाध्वनिः । तं । ' केका वाणी मयूरस्य ' इत्यमरः श्रुत्वा श्रुतिविषयतां नीत्वा । अपि च । तेषां च मयूराणां च बईक्षेपं पिच्छोत्क्षेपं बर्हाणि उत्क्षपं बहत्क्षेपं । ' स्वाङ्गेऽध्रुवे ' इत्यध्रुवे इवन्ते वाचि धोर्णम् । यस्मिन्वि - नष्टे सति प्राणिनां मरणं न भवति तदध्रुवं स्वाङ्गं । बर्हेषु विनष्टेषु सत्सु मयूराणां मरणं न भवतीति तेऽध्रुवस्वाङ्गभूताः । तेषु वाक्ष्वत्र धोर्णम् । नटितं नर्तनं । नृत्यमित्यर्थः । प्रेक्ष्य अवलोक्य । दग्धारण्येषु च । दग्धेषु दावाग्निभ्रष्टेषु च तेषु अरण्येषु च । उर्व्याः पृथिव्याः | अधिकसुरमिं समधिकसैौगन्ध्यं । गन्धं परिमलं । आघ्राय नासिकयोपादाय त्वां भवन्तं अकाले वर्षाकालादन्यस्मिन्काले आसन्नं सन्निधौ प्राप्तं । सपदि झटिति ज्ञातुं आकलयितुं पथिकाः पान्थाः । पन्थानं याति पथिकः । पथष्टट्' इति यात्यर्थे ठद् | अर्हन्ति योग्याः भविष्यन्ति । ९५ The travellers would become capable of knowing immediately your unseasonable approch on hearing in the forests the cries of the delighted peacocks, or seeing their charming dances with their plumages expanded, and on smelling the more fragrant odour of the earth in the burnt-up forests. पुष्पामोदैरविरलममी सम्पतन्तो वनान्ते बौत्सुक्यात सरसविदलत्कन्दलैश्वानुकुञ्जम् । दग्धारण्यस्थल परिमलैश्वानुकृष्टा यथास्वं सारङ्गास्ते जललवमुचः मूचयिष्यन्ति मार्गम् ॥ ८४ ॥ सुयात् पुष्पामोदैः ( अनुकृष्टाः ) वनान्ते अविरलं सम्पतन्तः अन्वयः--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy