SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वभ्युदये अध्यारूढाननुवनममी पर्वतीया मनुष्याः। त्वामायातं कलयितुमलं त्वत्पयोबिन्दुपातैः आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।। ८२ ॥ अन्वयः– यत्र अनुवनं अध्यारूढान् शिलीन्ध्रान् अनुकच्छं च त्वत्पयोबिन्दुपातैः आविर्भूतप्रथममुकुलाः कन्दलीः दृष्ट्वा अमी पर्वतीयाः मनुष्याः त्वां आयात कलयितुं अलं ( तां ) मध्येविन्ध्यं वनभुवं इयाः। मध्यविन्ध्यमित्यादि । यत्र विन्ध्याचलावेष्टितायां वनभुवि अनुवनं वने । * झिः सुब् - ' इति सुबर्थे हसः । अध्यारूढान् समुत्पन्नान् । शिलान्ध्रान् । कवकान् । ' शिलीन्धं कवके रम्भापुष्पत्रिपुटयोरपि ' इति विश्वलोचने । अनुकच्छच अनूपे । जलप्रायप्रदेशे इत्यर्थः । ' कच्छः शैलादिसीमनि | नौकाने तुन्नकेऽनपे परिधानाञ्चलान्तरे' इति विश्वलोचने । ' जलप्रायमनूपः स्यात्पुंसि कच्छस्तथाविधः ' इत्यमरः । 'झिः सुब् - ' इति सुबर्थ एव हसः । त्वत्पयोबिन्दुपातैः त्वत्पाथःपृषत्पातैः । तव पयः त्वत्पयः । तस्य बिन्दूनां पृषतां कणानां पातः पतनं । तैः । आविर्भूतप्रथममुकुलाः प्रकटीभूतप्रथमोत्पन्नकुड्मलाः । आविर्भूताः प्रकटीभूताः प्रथमाः प्रथमं प्रादुर्भूताः मुकुलाः यासां ताः। कन्दलीः भूकदलीः । 'द्रोणपर्णी स्निग्धगन्धा कन्दली भूकदल्यपि' इति शब्दार्णवे। दृष्ट्वा अवलोक्य अमी ते पर्वतीयाः पर्वते जाताः । 'पर्वतान्म] , इति मार्थे पर्वताच्छः । मनुष्याः मानवाः । त्वां भवन्तं आयातं सम्प्राप्तं कलयितुं अनुमातुं। कलधातोः कविकामधेनुत्वादनुमातुमित्ययमर्थः कलयितुमित्यस्य । अलं समर्थाः भवन्ति । तां तादृशीं मध्येविन्ध्यं विन्ध्यस्य मध्ये स्थितां । विन्धस्य मध्ये मध्येविन्ध्यं । 'पारेमध्येऽन्तस्तया' इति सः । वनमुवं वनभूमि इयाः यायाः । You should visit the forest region situated in the interior of the Vindhyas where the mountaineers are able to infer your approach on seeing mushrooms grown in the forests and the plantain trees, with their first buds manifested by the discharge of drops of your water, grown in the marshes. त्वामासन्नं सपदि पथिका ज्ञातुमर्हन्त्यकाले श्रुत्वा केकाध्वनिमनुवनं केकिनामुन्मदानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy