________________
1
प्रथमः सर्गः ]
९३
ललना कामिनी योषिद्योषा सीमन्तिनी वधूः । ' इति धनञ्जयः । अर्धरूढैः ईषदैः । एकदेशोद्भूतैः। अंशरूढैरित्यर्थः । 'अर्ध समांशके क्लीबमर्धः खण्डे पुमानपि ' इति विश्वलोचने । अर्धः रूढः यस्य सः । ' वाहिताग्न्यादिषु' इति क्तान्तस्य परनिपातः । केसरैः किञ्जल्कैः । ' केसरो बकुले सिंहच्छटायां नागकेसरे । पुन्नागेऽस्त्री तु किञ्जल्के स्यात्तु हिंगुनि केस रं' इति विश्वलोचने । हरितकपिशं श्यामलं । हरितं च तत् कपिशं च हरितकपिशं । ' वर्णो वर्णैः' इति वर्णवाचिनः वर्णवाचिना यसः । हरितं पालाशवर्ण । कपिशं कृष्णलोद्दितं । ' पालाशो हरितो हरित्, इति 'श्यावः स्यात्कारशो धूम्रधूमलौ कृष्णलोहिते ' इति चाऽमरः । पत्राणां हरिद्वर्णत्वात् हरितत्वं तत्पुष्पाणां च यावत्वात् कपिशत्वं नीपस्येति हरितकपिशमिति विशेषणं तस्य । नीपं स्थलकदम्बकं । अत्र जातावेकवचनं । तेन नीपानित्यर्थः । नीपानित्यस्य नीपकुसुमानीत्यर्थः ' पुष्पमूलेषु बहुलम्' इति नियममनुसृत्योप् कृतः न साधुः नीपकुसुमानां कृष्णलोहितमात्रत्वात्तेषां हरिद्वर्णत्वाभावात् । 'नीपो वलिकदम्बे स्यान्नीलवज्जुलबन्धने' इति विश्वलोचने । दृष्ट्वा संलक्ष्य त्वत्सान्निध्यं भवत्सामीप्यं अनुमिमते व्याप्त्या निश्चिन्वन्ति । वर्षाकालनीपपुष्पितत्वयोरविनाभावात् नीपपुष्पितत्वस्य वर्षाकालसान्निध्यादन्यथानुपपत्तेः वर्षाकालागमं ज्ञात्वा भवत्सान्निध्यं निश्चिन्वन्तीति तात्पर्यम् । तत् तस्मात्कारणात् स्वयं हेत्वन्तराश्रयणमन्तरेण । प्रत्यक्षेण हेतोः साध्येनाविनाभावं स्वयं निश्चित्येत्यर्थः । महानसे धूमधनञ्जययो रस्तित्वमवलोक्य धूमस्य धनञ्जयेनाविनाभावं निश्वित्य पर्वताग्रे धूमवलयदर्शनात् पूर्व स्वयं निश्चितात्तत्र धनञ्जयसद्भावो यथाऽनुमीयते तथा स्वयं निश्चिताद्धेतोः कारणानुमानं क्रियते इति तात्पर्ये । अधिगतात् स्वयं प्रत्यक्षेण निश्चितात् कार्यात् कार्यरूपात् लिङ्गात् हेतोः । लीनं इन्द्रियागोचरमर्थं गमयतीति लिङ्गं । कारणस्य कार्योत्पत्तिहेतोः अनुमानं अनुमितिः । अत्र भावेऽनट् । भवतीति मतं येषां रूढं प्रसिद्धं तेषां न्यायशास्त्रनिपुणानां इयं एषा अभिमा अभिमतं । अभिप्राय इत्यर्थः । युक्तरूपा अत्यर्थं युक्ता समीचीना । ' प्रशस्ते रूपः ' इति प्रशंसायां रूपः । मन्ये जानामि ।
As the wives of those that have gone abroad infer your approach on seeing the Nipa flowers, green and brown on account of the half-grown filaments I think that view of those that the inference of the cause is made on the ground of a probans in the form of its effect which is determined by ( the inferer ) himself ( i. e. without the help of some other probans ) quite correct (lit. quite proper ).
मध्ये विन्ध्यं वनभ्रुवमिया यत्र दृष्ट्वा शिलीन्ध्रान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org