________________
९२
[ पार्श्वाभ्युदये
पर्याप्तं । अतिशयेनेति यावत् । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । उत्सृज्य परिहृत्य । त्यक्त्वेत्यर्थः । पूर्णः आपूरितजलः एधि भव । 'अस् भुवि' इत्यस्य घोः लोटि रूपम् । येन आपूरितजलत्वादिना दूरं दविष्ठदेशं प्रयातः प्रवसतः स्थेमा स्थिरत्वं । भवति भविष्यति । ' पृथ्वादेर्वेमन् ' इति स्थिरशब्दादिमनि ' प्रियस्थिरस्फिरायादेरः' इति स्थिरावयवस्येकारादिवर्णसङ्घातस्य अवं । सर्वः रिक्तः सर्वः सारविकलः हि निश्चयेन । अवश्यमित्यर्थः । ' हि विशेषेऽवधारण' इति विश्वलोचने । लघुः गौरवशून्यः पक्षे उद्वाह्यः भवति जायते । पूर्णता ससारत्वं गौरवाय महिम्ने पक्षे गुरुत्वजनितनिष्प्रकम्प्यत्वाय । भवति जायते इति शेषः । ' क्लृप्यर्थेविकारे ' इत्यप् । पूर्णता गौरवरूपविकारभावेन परिणमते । गौरवं पूर्णतायाः परिणाम इत्यर्थः । सर्वस्य पूर्णस्य गौरवं भवति रिक्तस्य च लाघवमिति मनसिकृत्य रिक्ततां परित्यज्य यदि गौरवं भजसे तदा गरीयानपि प्रभञ्जनः स्वीकृतमार्गात्प्रच्याव्यान्यत्र भ्रामयितुं न शक्ष्यतीति तात्पर्यम् ।
Oh brave! you, travelling far off, should take in (receive, attract ) the waters of various rivers again and again on every one of your ways, (and) having completely given up emptiness ensuring lightness, should become full, by which you would become steady. Everying . empty verily becomes light (insignificant ) and fulness ensures heaviness ( significance, steadiness ).
कार्याल्लिङ्गात् स्वयमधिगतात कारणस्याऽनुमानं रूढं येषां तदियमभिमा युक्तरूपेति मन्ये । त्वत्सान्निध्यं यदनुमिमते योषितः प्रोषितानां
नीपं दृष्ट्वा हरितकपिशं केस रैरर्धरूढैः ॥ ८१ ॥
अन्वय :-- यत् प्रोषितांना योषितः अर्धरूढैः केसरैः हरितकापेशं नीपं दृष्ट्वा त्यत्सान्निध्यं अनुमिमते, तत् स्वयं अधिगतात् कार्यात् लिङ्गात् कारणस्य अनुमानं येषां रूढं तेषां इयं अभिमा युक्तरूपा इति मन्ये ।
कार्यादित्यादि । यत् यस्मात् कारणात् प्रोषितानां देशान्तरगतानां । योषितः स्त्रियः । 'नानाकार्यवशाद्यस्याः दूरदेशं गतः पतिः । सा मनोभवदुःखार्ता भवेत् 'प्रोषितभर्तृका' इति प्रोषितालक्षणम् । 'स्त्रीनारीवनिता मुग्धा भामिनी भीरुरङ्गना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org