SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] हृत्वेत्यादि । हे धन मेघ अपहृताशेषमार्गश्रमः दूरोत्सारितनिखिलाध्वखेदः । अपहृतः दूरोत्सारितः विनाशितः अशेषः निखिलः मार्गश्रमः अध्वक्लमः येन यस्य वा। त्वं भवान् तस्याः रेवापरामिधानायाः नर्मदायाः रसं जलं। 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचने । हत्वा आपीयोरीकृत्य वा अविहतप्रक्रमा अविहततत्परमार्गगमनां । अविहतः अप्रतिबद्धः प्रक्रमः तत्परवर्त्मनि शीघ्रगमनं यस्यां सा। व्योमव्रज्यां विहायोगति। व्योम्निआकाशे ज्या गमनं व्योमत्रज्या । ताम् । पुनः भूयः । सन्दधीथाः सम्यग्धत्स्व । यत् यस्मात् जलवान् जलगर्भः । जलमस्यास्तीति जलवान् । अस्त्यर्थे मतुवर्थो वत्प्रत्ययः । गरीयान् गुरुतरः । 'गुणाङ्गाद्वेष्ठेयसू' इयिसि 'टेः' इति टेः खं 'बहुलगुरु-' इति गरादेशश्च । अपि असौ अनिल : प्रभञ्जनः अन्तसारं। अन्तः सारः बलं यस्य सः । तं । बलवन्तमित्यर्थः । प्राप्तस्थैर्य । प्राप्त स्थैर्य स्थिरत्वं येन सः। तं। त्वां भवन्तं तुलयितुं उद्धृत्यापनेतुं न शक्ष्यति समर्थः न भविष्यति । Oh cloud ! you, stabilizod owing to your being substantial inside, with the fatigue of your journey dispelled thoroughly, should, having taken in her water, resume your journey in the sky with its progress unimpeded, so that the wind carrying water, though more powerful, might not be able to carry you away suddenly. मार्गे मार्गे पुनरपि जलान्याहरेस्त्वं धुनीनां येन स्थेमा भवति भवतो वीर दूरं प्रयातः। उत्सृज्यालं लघिमघटितां रिक्ततामधि पूर्णो रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।। ८० ॥ अन्वय :--वीर ! मार्ग मार्ग त्वं पुनः अपि धुनीनां जलानि आहरेः, लघिमघटिता रिक्तता अलं उत्सृज्य पूर्णः एधि, येन दूरं प्रयातः भवतः स्थमा भवति । सर्वः रिक्तः हि लघुः भवति, पूर्णता गौरवय (भवति)। मार्ग इत्यादि । वीर शूर। मार्गे मार्गे प्रतिमार्ग त्वं भवान् मेघाकारपरिणतिः पार्श्वः पुनः आप भूयोऽपि धुनीनां नदीनां । ' तटिनी ह्रादिनी धुनी' इत्यमरः । जलानि सलिलानि आहरेः गृहाण । लघिमघटितां जनितलघिमानं । घटिता लघिमा यया सा। अणिमजननीमित्यर्थः । 'वाहिताग्न्यादिषु' इति सः । लघोभावः लघिमा । 'पृथ्वादेर्वेमन् इतीमनि टेः' इति टिखम् । रिक्ततां सारवैकल्यं । अलं Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy