SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [पार्धाभ्युदये तस्याः क्षुण्णं वनकरिकराधट्टनैरप्यजत्रं जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ॥ ७८ ॥ अन्वय :-वनकरिकराघनैः अजस्रं क्षुण्णं अपि जम्बूकुञ्जप्रतिहतरयं उपलनिपतानाराम्भःप्रकाशं निर्जन्तुत्वात् मुनीनां प्रार्थनीयं तस्याः तत् स्वादीयः सुरभि शिशिरं तोयं आदाय गच्छेः । तदित्यादि । वनकरिकर।घट्टनैः । वनकरिणां आरण्यकानां गजानां कराः शुण्डादण्डाः वनकरिकराः । तेषामाघट्टनः प्रताडनैः । अजस्रं अनवरतं क्षुण्णं मर्दित अपि जम्बूकुञ्जप्रतिहतरयं । जम्बूनां जम्बूवृक्षाणां कुजैः निकुजैः प्रतिहतः विनितः प्रतिबद्धः रयः वेगः यस्य तत् । उपलनिपतन्निराम्भ:प्रकाशं। उपले पाषाणे निपततीति उपलनिपतत् । निर्झरस्य प्रवाहस्य अम्भः पानीयं निर्झराम्भः । उपलनिपतत् च तन्निर्झराम्भश्च उपलनिपतन्निर्झराम्भः । तेनाम्भसा तुल्यम् । निर्जन्तुत्वात् जन्तुरहितत्वात् । प्रासुकत्वादित्यर्थः । मुनीनां मुनिजनैः प्रार्थनीयं प्रार्थनाह । 'व्यस्य वा कतरि' इति ता कर्तरि । 'तृज्व्याश्चाहे' इत्यर्हार्थे व्यः । तस्याः नर्मदायाः तत् प्रसिद्ध स्वादीयः स्वादुतरं । मधुरतरमित्यर्थः। 'गुणागाद्वष्ठेयसू'इतीयस् । सुरभि सौगन्ध्यबन्धुरं शिशिरं शीतलं तोयं जलं आदाय सगृह्य गच्छेः याया । Taking that water of that river, incessantly beaten by the strokes of the trunks of elephants and having its force curbed (restrained ) by the groves of Jambu trees, resembling the water of rivulets dashing against rocks, worthy of being craved for by the sages owing to its being void of insects, pleasing to the taste, fragant and cool, you should procced on. हृत्वा तस्या रसमपहताशेषमार्गश्रमस्त्वं व्योमव्रज्यां पुनरविहतप्रक्रमा सन्दधीथाः। प्राप्तस्थैर्य सपदि जलवानप्यसौ यद्गरीयान् - अन्तःसारं घन तुलयितुं नाऽनिलः शक्ष्यति त्वाम् ॥ ७९ ॥ अन्वय :--हे घन ! अपहृताशेषमार्गश्रमः त्वं तस्याः रसं हृत्वा अविहतप्रक्रमां व्योमत्रज्यां पुनः सन्दधीथाः, यत् जलवान् गरीयान् अपि असौ अनिलः अन्तःसारं प्राप्तस्थैर्य त्वां सपदि तुलयितुं न शक्ष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy