________________
[ पार्धाभ्युदये
उत्सर्ग ग वर्षेण द्रुततरा शीघ्रतरा गतिः गमनं यस्य सः । तत्परं आम्रकूटादुत्तरं । तस्मादाम्रकूटात् परं उत्तरं । वर्त्म मार्ग । तीर्णः तरीतुमारब्धवान् । आद्यकर्मणि क्तः कर्तरि च। गरिमालम्बनं गौरवानिबन्धनं। गरिमा गुरोर्भावः । 'पृथ्वादेर्वेमन्' इतीमनि 'टेः' इति टेः खं 'बहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां बंहिगर्ववर्षित्रप्द्राघवृन्दाः' इति गरादेशश्च । गरिमा आलम्बनं निमित्तकारणं यस्य तम् । कालक्षेपं कालयापनं । कालस्य क्षेपः यापन कालक्षेपः । तं । विसृज परिहर । सद्यः शीघ्रं । याहि गच्छ ।
Having left the caverns or bewers, you should anyhow go away from that mountain. Be assured that the mind, difficult to be prevailed upon, does not leave a beautiful sight. You, with your motion rendered more speedy, beginning to traverse the path beyond it (i. e. the mountain ) should give up delay caused by your heaviness ( and ) start immediately.
गत्वोदीची भुव इव पृथु हारयष्टिं विभक्तां
वन्येभानां रदनहतिभिभिन्नपर्यन्तवनाम् । वीनां वृन्दैर्मधुरविरुतैरात्ततीरोपसेवां
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् ॥ ७५ ।। अन्वयः -- उदीची गत्वा वन्येभानां रदनहतिभिः भिन्नपर्यन्तवप्रां, वीनां मधुरविरुतैः वृन्दैः आत्ततीरोपसेवां, उपलविषमे विन्ध्यपादे विशर्णीि रेवां भुवः विभक्तां पृथु हारयष्टिं इव द्रक्ष्यसि ।
गत्वेत्यादि । उदीची उत्तरां दिशं । 'उत्तरा दिक् उदीची स्यात्' इत्यमरः। गत्वा प्राप्य । वन्येभानां आरण्यकानां गजानां । वने जाताः वन्याः । वन्याश्च ते इभाः गजाश्च वन्येभाः। 'इभः स्तम्बरमः पद्मी' इत्यमरः । रदनहतिभिः दन्तप्रहारैः । रदनानां दन्तानां हतिभिः प्रहारैः । भिन्नपर्यन्तवमां विदारिताग्रतीरां । भिन्नपर्यन्तौ वौ तीरौ यस्याः सा । 'वप्रस्तातेऽस्त्रियां तीरे तु क्षेत्रचयरेणुषु' इति विश्वलोचने । यद्वा भिन्नाः विदारिताः पर्यन्तवप्राः पर्यन्तस्थितरेणुचयाः यस्याः सा। ताम् । वीनां पाक्षिणा मधुरविरुतैः । मधुराणि विरुतानि ध्वनयः येषां तैः । श्रुतिमनोहरारावैः । मधुर आरुवद्भिरित्यर्थः । आत्ततीरोपसेवां। आत्ता स्वीकृता तीरयोः (ईप) उपसेवा निवासः यस्याः सा । मधुरारावैः विहगवृन्दैः तीरभूमौ कृतवसतिकामित्यर्थः । उपलविषमे पाषाणस्थपुटिते । उपलैः पाषाणैः विषमः स्थपुटितः निम्नोन्नतः उपलविषमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org