SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] तस्मिन् । विन्ध्य पादे विध्याद्रिप्रत्यन्तपर्वते। 'पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितो। शैलप्रत्यन्तशैले ना' इति विश्वलोचने। विशीर्णा विशेषेण विदीर्णा रेवां नर्मदाभिख्यां नदी भुवः भूदेव्याः विभक्तां विशिष्टविरचनां पृथु महती हारयष्टिं इव हार इव द्रक्ष्यसि नेत्रविषयता नेष्यसि । विहायसा विहरतो मनसि भूहारयष्टिकल्पनां जनयन्ती नर्मदां भवान् द्रक्ष्य तीति भावः। ___Having gone in the northern direction, you would see Reva (i. c. Narmadā ), having the edges of hanks rent asunder by the strokes of the tusks of the forest elephants (or having the adjoining mounds of earth cut asunder by the strokes of the tusks of the forest-elephants ), having her banks worshipped or occupied by the crowds giving out de lightful notes, split up at the foot of the Vindhyas rendered uneven by stones, as a well-arranged big necklace worn by the earth. तां तस्याद्ररुपतटवनं विप्रकीर्णप्रवाहां तीरोपान्तस्खलनविषमोद्वत्तफेनां समीनां । पश्य प्रीत्या गिरितटगजक्षोभभिन्नोर्मिमालां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ।। ७६।। अन्वयः-- तस्य अद्रेः उपतटवनं विप्रकीर्णप्रवाहां, तीरोपान्तस्खलनविषमोवृत्तफेना, समीना, गिरितटगजक्षोभभिन्नोर्मिमालां भक्तिच्छेदैः गजस्य अङ्गे विरचितां भूतिं इव (लक्ष्यमाणां) तां प्रीत्या पश्य । तामित्यादि । तस्य अद्रेः । विन्ध्याचलस्य । उपतटवनं तटवनसमीपे तटवने वा। तटवनस्य समीपे उपतटवनं । 'झिः सुब्ब्युद्ध्यृद्ध्यर्थाभावातीत्यसम्प्रतिशब्दख्यातिपश्चाद्यथायुगपत्सम्पत्साकल्यान्ते' इति समीपार्थे सुबर्थे वा हसः। विप्रकीर्णप्रवाहां अतिविशालप्रवाहां । तीरोपान्तस्खलनविषमोवृत्तफेनां । तीरयोः उपान्ते स्खलनेन वृक्षोपलादिप्रतिबन्धजनितगतिस्खलनेन विषमं यथा तथा उद्वृत्तो प्रवाहोपरितनभागं प्राप्तः फेनः डिण्डीरः यस्याः सा ताम् । समीनां सहमीनां । अनेन विशेषणेन तटवनसमीप एव नर्मदायाः गम्भीरत्वं ध्वन्यते, अन्यथा प्रवाहवेगेन तत्र मत्स्यानामसम्भवनिवासत्वात् । गिरितटगजक्षोभभिन्नोर्मिमालां। गिरितटश्च गजाश्च गिरितटगजाः। गजशब्दस्याल्पाच्त्वेपि अल्पाच्पूर्वनिपातशास्त्रस्यानित्यत्वात्परनिपातः । यद्वा गिरितटभवाः गजाः गिरितटगजाः। तेषां क्षोभैः भिन्ना विरचिता वीचीनां कल्लोलानां माला परम्परा यस्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy