SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] मांसलोन्नतकुचतटभारात् । पीनाः मांसलाश्च ते उत्तुङ्गाः उदग्राश्च पानोत्तुङ्गाः । स्तनानां मांसलत्वेऽपि तुङ्गत्वं सम्भवत्येवीत न नियमः, वृद्धास्तनानां मांसलत्वेऽप्यनुन्नतत्वदर्शनात् । अतः स्तनकाठिन्यसूचनार्थ उत्तुङ्गविशेषणमित्यवसेयम् । पीनोत्तुङ्गानां स्तनतटानां भरः भारः । तस्मात् । मन्दमन्दं मन्दप्रकारं । मंदगत्येत्यर्थः ' ' प्रकारे गुणोक्तेर्वा' इति द्विः । प्रयान्तीः गच्छन्तीः । मन्दगमना इत्यर्थः । प्रावक्षुण्णप्रशिथिलनखाः उपलशोदप्रश्लथनखराः । ग्रावभिरुपलैः क्षुण्णाः सञ्जातक्षोदाः अत एव प्रशिथिला प्रश्लथाः नखाः पादाङ्गुल्यग्रजाः यासां ताः । वाजिवक्त्राः अश्वमुख्यः । किन्नयः इत्यर्थः। प्रपश्येः प्रेक्षिष्यसे । Staying for a short time on it, the bowers of creepers whereon are made use of by the wives of the forest-wanderers, you would see the women of the Kinnaras ( the women having their faces like that of a torse), possessing beautiful buttocks, having large (long) teeth, possessing long and acquiline noses, moving slowly on account of the heaviness of their fleshy and clevated breasts, and having their nails loosened on account of their being bruised by stones. तस्मादद्रेः कथमपि भवान्मुक्तकुञ्जः प्रयायात् रम्यस्थानं त्यजति न मनो दुर्विधानं प्रतीहि । कालक्षेपं विसृज गरिमालम्बनं याहि सद्यः तोयोत्सर्गद्रुततरगतिस्तत्परं वर्म तीर्णः ।। ७४ ॥ अन्वयः--- मुक्तकुञ्जः भवान् तस्मात् अद्रेः कथं अपि प्रयायात् । दुर्विधानं मनः रम्यस्थानं त्यजति ( इति ) प्रतीहि । तोयोत्सर्गद्रुततरगतिः तत्परं वर्म तीर्णः गरिमालम्बनं कालक्षेपं विसृज । सद्यः याहि । तस्मादित्यादि । मुक्तकुजः मुक्ताः प्रस्थानार्थ परिहृताः कुञ्जाः आम्रकूटपर्वतनिकुञ्जाः येन सः । भवान् मेघाकारपरिणतः पार्श्वस्त्वम् । तस्मात् अद्रेः यं भवान् संश्रयार्थ प्राप्तः तस्मात् आम्रकूटाभिधानात् भूधरात् । कथमपि येन केनाप्युपायेन प्रयायात् प्रगच्छेत् । यतः दुर्विधानं दुराराध्यं दुर्विजय्यं । दुःखेन कृच्छ्रेण विधीयते वशीक्रियते इति दुर्विधानं । 'स्वीषद्दसि कृच्छाकृच्छ्योः खः' इति कृच्छ्रार्थे खः । मनः मानसं । रम्यस्थानं रमणीयभूप्रदेशं न त्यजति न विमुञ्चति इति प्रतीहि जानीहि । तोयोत्सर्गदुततरगतिः जलोत्सर्गजनिताणिम्ना शीघ्रतरगमनः । तोयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy