SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वभ्युदयः चलमास्यरूपतां वोढा तस्मिन् काले अमरमिथुनश्लाघनीयां देवयुगलप्रशंसाहीं । अमराणां देवानां मिथुनः युगलैः श्लाघनीयां श्लाघयितुं प्रशंसितुं योग्यां । अर्थेि व्यः ।। शोभा सौन्दर्य अतिमात्रं निर्भरं । 'अतिमात्रोद्गाढनिर्भरम्' इत्यमरः । एष्यति प्राप्स्यति । This mountain, dark at the centre, variagated in the lower part by the various flowery trees ( grown there ) and whitish in the remaining expansion of the surface, looking like the broast of the earth when you, possessing deep blue splendour, would be assuming the form of a garland, would at that time, assume extreme beauty worthy of being very highly praised by the couples of heavenly gods. रम्यश्रोणीर्विकटदशनाः प्रथिनीर्घघोणाः पीनोत्तुङ्गस्तनतटभरान्मन्दमन्दं प्रयान्तीः । ग्रावक्षुण्णप्रशिथिलनखा वाजिवक्त्राः प्रपश्येः तस्मिन् स्थित्वा वनचरवधूभुक्तकुब्जे मुहूर्तम् ॥ ७३ ।। अन्वयः- वनचरवधूभुक्तकुले तस्मिन् मुहूर्त स्थित्वा रम्यश्रोणी: विकटदशनाः प्रोथिनीः दीर्घघोणाः पीनोत्तुङ्गस्तनतटभरात् मन्दमन्दं प्रयान्तीः ग्रावक्षुण्ण प्रशिथिलनखाः वाजिवक्त्राः प्रपश्यः । रम्येत्यादि। वनचरवधूभुक्तकुञ्ज आरण्यकवधूपभुक्तकुब्जे । वने चरन्तीति वनचराः आरण्यकाः । 'चरोऽट्' इत्यः । तेषां वधूभिः भुक्तानि कुञानि लतामण्डपाः यत्र । ' निकुञ्जकुजौ वा क्लीवे लतादिपिहितोदरे' इत्यमरः। तस्मिन् आम्रकूटपर्वते मुहूर्त क्षणमात्र स्थित्वा अधिष्ठानं कृत्वा । विश्रम्येत्यर्थः । रम्यश्रोणी: मनोहरकटिपश्चाद्गागाः । रम्या रमणीयाः श्रोणयः कटिपश्चाद्भागाः यास ताः। 'कटिनितम्बः श्रोणिश्च जघनम्' इति धनञ्जयः । विकट दशनाः विशालरदनाः सुदत्यो वा । विकटाः विशालाः अश्वरदनतुल्याः अश्वमुखीत्वात् दशनाः रदनाः यासां ताः। यद्वा विशालाः सुन्दराः इति । 'विकटो विकराले स्याद्विशाले सुन्दरे वरे' इति विश्वलोचने । प्रोथिनीः अश्वघोणाकारनासिकाः वृत्तनासान्तप्रदेशाः वा। प्रोथः अश्वघोणा । प्रोथाः आसां सन्तीति प्रथिनीः। 'वृत्तः नासान्तप्रदेशः प्रोथः' इत्यमरकोशटीकायां क्षीरस्वामी। दीर्घघोणाः लम्बनासिकाः । दीर्घाः घोणाः नासिकाप्रदेशाः यासां ताः दीर्घघोणाः। ललाटपर्यन्तादिनासाग्रान्तः नासिकाप्रदेशः घोणा । पीनोतुगतनटभरात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy