________________
प्रथमः सर्गः]
इत्यमरः । अमरमिथुनप्रेक्षणीयां देवयुगलैरवलोकनीयां । अमराणां देवानां मिथुनानि युग्मानि अमरमिथुनानि । तैः प्रेक्षणीयां अवलोकनाहीं । 'तृज्व्याश्चाहे ' इति व्योऽर्हार्थे । अवस्थां दशां नूनं अवश्यं । 'नूनं स्यादर्थनिश्चये' इति विश्वलोचने । यास्यति प्राप्स्यति ।
You, assuming the charming beauty of a saphife again and again, settling upon the cavern of that mountain (Amrakuta ) for a while, would certainly attain to a state worthy of being looked at by the heavenly couples like a thin delicate piece of the sky reached to this earth being abandoned by the heaven.
त्वय्यानीलत्विषि गिरिरसौ शेखरत्वं दधाने
शोभामेष्यत्यमरमिथुनश्लाघनीयां तदानीम् । नानापुष्पद्रुमशबलितोपत्यकः सोतिमात्र
मध्ये श्यामः रतन इव भुवः शेषविस्तारपाण्डुः ।। ७२ ॥ अन्वयः-~-मध्ये श्यामः नानापुष्पद्रुमशवलितोपत्यकः शेषविस्तारपाण्डुः आनीलविषि त्वयि शेखरत्वं दधाने भुवः स्तनः इव सः असौ गिरिः तदानी अमर मिथुनश्लाघनीयां
शोभा अतिमात्रं एष्यति । .. त्वयीत्यादि । मध्ये मध्यभागे श्यामः कृष्णवर्णः नानापुष्पद्रुमशबलितोपत्यकः नानाविधपुष्पवृक्षचित्रितपर्यन्तप्रदेशः। नाना नानाविधाः पुष्पद्रुमाः नानापुष्पद्रुमाः । तैः शबलिता शबला चित्रवर्णा कृता उपत्यका पर्यन्तप्रदेशः यस्य सः । शबलयति शबलवर्ण करोति स्म शबलिता। 'तत्करोति तदाचष्टें' इति णिच ततश्च क्तः । 'चित्र किर्मीरकल्माषशबलताश्च कबुरे' इत्यमरः । 'उपत्यकानेरासन्ना भूमिर्ध्वमधित्यका' इत्यप्यमरः । शेषविस्तारपाण्डुः अवशिष्टभूव्यासे पाण्डुवर्णः। शेषः मध्यप्रदेशादन्यो ऽवशिष्टः यः विस्तारः भुवो व्यासः तत्र पाण्डुः हरितवर्णः । 'विस्तारो विस्तृतावपि' इति विश्वलोचने । 'पाण्डुः कुन्तीपतौ सिते' इत्यपि विश्वलोचने । आनीलत्विषि समन्तान्नीलवर्णे त्वयि । आ समन्तान्नीला नीलवर्णा त्विट् कान्तिः यस्य सः आनीलत्विट् । तस्मिन् । त्वयि मेघाकारपरिणामितस्वदेहे भवति पार्श्वे शेखरत्वं माल्यत्वं दधाने वहमाने । तत्पर्वतभूषणमालारूपतां वहमाने त्वयीत्यर्थः । भुवः वसुन्धरायाः स्तनः इव पयोधरसदृशः असौ गिरिः असौ आन्नकूटाचलः । तदानीं यदा भवान् आम्रकूटा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org