SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ [पार्श्वभ्युदये पुरा भवदारोहणानन्तरं निकटभविष्यति जनयति जनयिष्यति । 'पुरायावतोर्लट् ' इति निकटभविष्यति लट् । The mountain would excite a doubt. Is this, occupying the middle part of this ( mountain ), a black serpant with his body turned into a circular from (i. e. encircling the middle part of this mountain with his coiled body ) or is this a garland made of blue lotuses, of the mountain (i. e. has this mountain worn a garland of blue lotuses )?' in the hearts of the simple ladies of Vidyadharas just after when you, having resemblance in colour with an oiled braid of hair, would have ascended the summit ( of the mountain, Amrakuta ) अध्यासीनः क्षणमिव भवानस्य शैलस्य कुञ्ज लक्ष्मी रम्यां मुहुरुपहरंनिन्द्रनीलोपलस्य । खेनोन्मुक्तो भुवभिव गतः श्लक्ष्णनिर्मोकखण्डो नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् ॥ ७१ ।। अन्वयः- इन्द्रनीलोपलस्य रम्यां लक्ष्मों महः उपहरन् अस्य शैलस्य कुञ्ज क्षणं इव अध्यासीनः भवान् खेन उन्मुक्तः भुवं गतः श्लानिर्मोकखण्डः इव अमरमिथुनप्रेक्षणीयां अवस्थां नूनं यास्यति । ___ अध्यासीन इत्यादि । इन्द्रनीलोपलस्य हरिन्मणेः । इन्द्रः इव नीलः इन्द्रनीलः। इन्द्रनीलः एव उपलः इन्द्रनीलोपलः । तस्य । रम्यां रमणीयां । लक्ष्मी कान्ति । 'लक्ष्मीः श्रीरिव सम्पत्तो पद्माशोभाप्रियद्गुषु' इति विश्वलोचने । उपहरन उपवहन् । उपहरतीति उपहरन् । शतृ । अस्य शैलस्य आम्रकूटाभिधानपर्वतस्य । कुखं दरी निकुञ्ज वा । 'कुलं तु न स्त्रियां । हनौ वत्से निकुञ्जेऽपि' इति विश्वलोचने । क्षणं इव अल्पकालं अध्यासीन अधितिष्ठिन् । 'कमैवाधेः शीङ्स्थासः' इत्यधिपूर्वस्य शीडः आधारस्य कर्मत्वं । तथा 'कर्मणीप्' इति कर्मणः इप् । भवान् मेघाकारपरिणतः भवान् पार्श्वः । खेन स्वर्गेण । 'खमाकाशे दिवि सुखे बुद्धौ संवेदने पुरे । शून्यवदिन्द्रियक्षेत्रे कुशाहलफले क्वचित् ' इति विश्वलोचने । उन्मुक्तः परित्यक्तः । भुवं भूमि गतः प्राप्तः श्लक्ष्णनिर्मोकखण्डः इव सूक्ष्मः आकाशखण्डः इव । निर्मोकस्य व्योम्नः खण्डः शकलं निर्मोकखण्डः । “निर्मोको व्योंम्नि सन्नाहे मोचने सर्पकञ्चुके ' इति विश्वलोचने। लक्ष्णः सूक्ष्मश्चासौ निर्मोकखण्डश्च श्लक्ष्णनिर्मोकखण्डः। 'सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy