SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] ८१ That mountain, worthy of being resorted to, the lofly peaks of which are occupied by the ladies of those who roam in the sky (i. e. sky-wanderers ), the regions of the summits of which are beautiful, which are worthy of being resorted to by the particular heavenly gods (or by the sages who would attain liberation certainly in the future), a deserving place for the growth of creepers and shrubs furnished with flowers ( or an excellent abode of flowery creepers and shrubs ), the skirts of which are covered over with the wild mango-trees glistening with ripe fruits, would impel you to hasten up for taking rest in the near future. कृष्णाहिः किं वलयिततनुर्मध्यमस्यातिशेते किंवा नीलोत्पलविरचितं शेखरं भूभृतः स्यात् । इत्याशङ्कां जनयति पुरा मुग्धविद्याधरीणां त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ॥ ७० ॥ अन्वयः -- स्निग्धवेणी व त्वयि शिखरं आरूढे (सति) अचल: ' वलयिततनुः कृष्णाहिः अस्य मध्यं अधिशेते किम् ? वा भूभृतः नीलोत्पलविरचितं शेखरं स्यात् किम् ? ' इति आशङ्कां मुग्धविद्याधरीणां पुरा जनयति । कृष्णाहिरित्यादि । स्निग्धवेणीसवर्णे तैलाभ्यक्तकबरीसदृशवर्णे । स्निग्धा तैलार्द्रीकृता चासौ वेणी कबरी च स्निग्धवेणी । ' पुंवद्यजातीयदेशीये' इति यत्वात्पुंवद्भावः । तया समानः तुल्यः वर्णः यस्य सः । तस्मिन् । ' समानस्य धर्मादिषु ' इति समानस्य खादेशः । त्वयि भवति शिखरं आम्रकूट भूधरसानुं आरूढे सति शिखरभागं प्राप्ते स्रति । ' यद्भावाद्भावगतिः' इति ईप् । अचलः आम्रकूटपर्वतः । वलयिततनुः मण्डलाकार परिणामितस्वकायः । वलयिता मण्डलाकारेण परिणामिता तनुः शरीरं येन यस्य वा । कृष्णाहिः कृष्णवर्णः सर्पः । कृष्णश्चासावद्दिश्च । अस्य आम्रकूटाचलस्य मध्यं मध्यभागं अधिशेते तिष्ठति किम् ? ' अधिशीस्थासां कर्म ' इत्यधिपूर्वशीङ आधारस्य कर्मत्वं । वा अथवा भूभृतः आम्रकूटाचलस्य नीलोत्पलविरचितं नीलवर्णकमलनिबद्धं । नीलं नीलवर्ण च तत् उत्पलं कुवलयं च नीलोत्पलं । नीलोत्पलैः विरचितं निबद्धं नीलोत्पलविरचितं । शेखरं माल्यं । शिखास्वापीडशेखराः इत्यमरः । स्यात् किम् भवेत् किम् ? इति एवंविधां आशङ्कां संशयं मुग्धविद्याधरीणां मूढविद्याधरयोषितां । मुग्धाः मूढाश्च ताः विद्याधर्यश्च मुग्धविद्याधर्यः । तासां । पार्श्वाभ्युदये... ६ Jain Education International For Private & Personal Use Only " www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy