________________
[पार्थाभ्युदये
his friend. Why would he, who is magnanimous as described above, have his face turned away at the arrival of you, his friend ?
सेव्यः सोऽद्रिः खचरवनिताध्यासिदोदप्रशृङ्गः ___ त्वां विश्रान्त्यै त्वरयति पुरा रम्यसानुप्रदेशः। सिद्धोपास्यः कुसुमितलतावीरुधां सन्निवेश्यः
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्नैः ॥ ६९ ॥ अन्वयः- खचरवनिताध्यासितोदग्रशृङ्गः, रम्यसानुप्रदेशः, सिद्धोपास्यः, कुसुमितलतावीरुधां सन्निवेश्यः, परिणतफलद्योतिभिः काननानैः छन्नोपान्तः सेव्यः सः अद्रिः पुरा त्वां विश्रान्त्यै त्वरयति ।।
सेव्य इत्यादि । खचरवनिताध्यासितोदप्रशृङ्गः विद्याधराङ्गनोषिततुङ्गशृङ्गः । उदग्राणि उद्गताग्रभागानि अत एवोन्नतानि च तानि शृङ्गाणि सानूनि उदग्रशृङ्गाणि । खे चरन्तीति खचराः । 'चरोऽट्' इत्यट् । विहायोगतयः विद्याधराः । तेषां वनिताः स्त्रियः ताभिः अध्यासितान्युषितानि उदग्रशृङ्गाणि यस्य सः । रम्यसानु प्रदेशः सुभगशिखराग्रभागः। रम्याः सुभगाः सानूनां प्रस्थानां प्रदेशाः अग्रभागाः यस्य सः। सिद्धोपास्यः देवविशेषसमाश्रयणीयः मोक्षमार्गरतश्रमण-मुनिजनजनसंसेव्यः वा। सिद्धाः देवविशेषाः आसन्नमुक्तिश्रमणमुनिजना वा। तैः उपास्यः आश्रयणाः । उपासितुं योग्याः उपास्याः । 'तृव्याश्चोई' इत्यहाँर्थे व्यः । कुसुमितलतावीरुधां उत्फुल्लपुष्पाणां लतावीरुधां । कुसुमिताः सञ्जातपुष्पाः। 'तदस्य सञ्जातं तारकादिभ्य इतः' इतीतस्त्यः । लताः वल्लयश्च वीरुधः गुल्माश्च लतावीरुधः । कुसुमिताश्च ताः लतावीरुधश्च कुसुमितलतावीरुधः । तासां । यद्वा लतानां वीरुधः विटपाः शाखाः लतावीरुधः । 'लतायां विटपे वीरुत् ' इति विश्वलोचने । सन्निवेश्यः संश्रयणाईः । सन्निवेशः इति पाठेनात्रभाव्यामिति प्रतिभाति । तस्य च ' समाश्रयः' इत्यर्थः सङ्ग्राह्यः। परिणतफलद्योतिभिः परिणतः पक्कैः फलैः द्योतन्ते प्रकाशन्ते इति परिणफलद्योतिनः। तैः । काननानैः कानने वने संरूद्वैः आप्रेः आम्रवृक्षैः । 'अरण्यं काननं वनं' इति धनञ्जयः। छन्नोपान्तः संवृतसमीपप्रदेशः । छन्नः संवृतः उपान्तः पार्श्व यस्य सः छन्नोपान्तः। सेव्यः संश्रयणाईः । सः अद्रिः आम्रकूटाचलः। पुरा निकटभाविनि। 'पुरा भाविपुराणयोः। प्रबन्धे निकटेऽतीते' इति विश्वलोचने । त्वां भवन्तं विश्रान्त्यै विश्रमार्थ त्वरयति त्वरां कारयिष्यति । 'पुरायावतोर्लट्' इति पुराशब्दप्रयोगात् निकटभाविनि लट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org