SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] approaching him for taking rest. Taking into consideration previous favours, an insignificant person even does not deserve to disappoint au affectionate friend approached for the sake of refuge at a proper time. मन्ये मैत्री गुरुभिरचलैरिदानामहार्या __ यं प्रत्येते विदधति धृति, तस्य ते बन्धुकृत्यं । कुर्याद द्रि शमसुहृदोऽत्युत्तमस्निग्धवृत्तिः ___ प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ ६८ ॥ अन्वयः-- वारिदानां गुरुभिः अचलैः मैत्री अहा- मन्ये । यं प्रति एते धृति विदधति, तस्य ते असुहृदः अपि उत्तमस्निग्धवृत्तिः अद्रिः भृशं बन्धुकृत्यं कुर्यात् । यः पुनः तथा उच्चैः (सः) मित्रे भवति प्राप्ते विमुखः किम् ? मन्य इत्यादि । वारिदानां मेघानां गुरुभिः महद्भिः उन्नतकायैश्च अचलैः नगैः । पर्वतैरित्यर्थः । मैत्री मित्रत्वं अहा- अशक्यपरिहारां । हर्तुं विनाशयितुं शक्यते इति हार्यो । 'शकि लिङ् च' इति शक्यर्थे व्यः । न हार्या अहार्या । ताम् । मन्ये जानामि । यं भवन्तं प्रति एते अचला घृति सन्तोषं विदधति हृदये कुर्वन्ति, तस्य तादृशस्य ते तव असुहृदः अपि मित्रभावमप्राप्तस्य सतः अपि । उत्तमस्निग्धवृत्तिः महापुरुषवत् स्नेहाईवृत्तिः । उत्तमानामिव स्निग्धा स्नेहार्दा वृत्तिः वर्तनं यस्य सः । अद्रिः आम्रकूटाचलः भृशं अत्यर्थ बन्धुकृत्यं बन्धुना करणीयं सभाजनादिकं कुर्यात् करिष्यतीति सम्भावये । 'क्षिप्राशंशोक्तौ ललिङ्।' इत्याशंसायां लिङ् । यः आम्रकूटाचलः पुनः । अनेनाद्रिसामान्यादाम्रकूटस्य विशिष्टत्वं ध्वन्यते । तथा त्वामित्यादिपूर्वश्लोकोक्तप्रकारेण उच्चैः उन्नतः । तुङ्गवृत्तिः स्वयमुत्तमो वा । सः आम्रकूटाचलः मित्रे सुहृदि भवति त्वयि प्राप्ते संश्रयणार्थमाश्रिते सति । त्वयि संश्रयाणार्थ तमाम्रकूटमाश्रिते सतीत्यर्थः । विमुखः पराङ्मुखः किस् किमर्थ । 'स्यात्' इति शेषः । भवादशि सुहृदि प्राप्तेऽसुहृदोऽपि बन्धुकृत्यं कुर्वन्नाम्रकूटाचलः ते. बन्धुकृत्यमवश्यं करिष्यतीति भावः । I think that the friondship of the clouds with the magnanimous mountains is such that it cannot be shaken off. To you, with whom they (mountains) are satisfied, the mountain, affectionate like the excellent, would have rendered sorvico, even though you would not have been Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy