SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये aside and enjoying the pleasure derived from coition in the interior of the caves carved into the rocks, when you, approached in the vicinity, would be discharging drops of water, moistening clothes, like those in the rainy season. ७८ त्वामुत्तुङ्गैः शिखरतरुभिः सङ्ग्रहीष्यत्यवश्यं विश्रान्त्यर्थं प्रियमुपगतं सोऽचलस्तुङ्गवृत्तिः । प्राप्तं काले प्रणयिनमहो कर्तुमर्हत्यपाशं न द्रोऽपि प्रथम सुकृतापेक्षया संश्रयाय || ६७ ॥ अन्वयः विश्रान्त्यर्थं उपगतं त्वां प्रियं सः तुङ्गवृत्तिः अचलः उत्तुङ्गैः शिखरतरुभिः अवश्यं सङ्ग्रहीष्यति । काले संश्रयाय प्राप्तं प्रणयिनं अहो ! क्षुद्रः अपि प्रथमसुकृतापेक्षया अपाशं कर्तुं न अर्हति । " त्वमित्यादि । विश्रान्त्यर्थं विश्रमाय उपगतं प्राप्तं त्वां भवन्तं प्रियं मित्रं सः तुङ्गवृत्तिः उन्नतावस्थां प्राप्तः पक्षे उन्नतपुरुषतुल्यसमुदाचारः । तुङ्गा उनत्ता वृत्तिः कायिकी स्थितिः यस्य सः । पक्षे तुङ्गानां महापुरुषाणां वृत्तिः समुदाचारः इव वृत्तिः यस्य सः । ' ईबुपमानपूर्वस्य खंगतार्थत्यात् । अचलः आम्रकुटाभिधानः पूर्ववर्णितः भूधरः । उत्तुङ्गैः उन्नतैः शिखरतरुभिः अधित्यका भूदेशप्ररूढवृक्षैः । शिखरे भूधरस्य उन्नततमप्रदेशे प्ररूढाः वृक्षाः । तैः । तावत्र भा । अवश्यं निश्चयेन सङ्ग्र हीष्यति सभाजनं करिष्यति | आतिथ्यं विधास्यतीत्यर्थः । काले समुचितसमये संश्रयाय । संश्रयणार्थं प्राप्तं आगतं प्रणयिनं मित्रं । अहो विचारे । अहो प्रश्ने विचारे स्यात् ' इति विश्वलोचने । विचार्यतामिति भावः । क्षुद्रः अपि स्वल्पः अपि । अनुत्तुङ्गवृत्तिरपीति भावः । — क्षुद्र स्वरूपाधमक्रूरकृपणेष्वभिधेयवत्' इति विश्वलोचने । प्रथमसुकृतापेक्षया पूर्वकृतोपकारापेक्षया । अपाशं निराशं या अपगता विनष्टा आशा अभिलाषेो यस्य सः । तं । विनष्टाकाङ्क्षामित्यर्थः । कर्तुं विधातुं । न अर्हति न योग्यो भवति । पूर्वकृतोपकारं संस्मृत्याश्रयाभिलाषेण सम्प्राप्तं मित्रं विनष्टाकांक्षं कर्तुं नार्हति क्षुद्रोऽपि जनः आश्रयप्रदानेन तदभिलाषं मित्रं सफलीभूताभिलाषं करोति । किं पुनस्तुङ्गवृत्तेर्वक्तव्यम् ? स तु तथाऽवश्यमेव करोति । अयमाम्रकूट: स्वभावतस्तुङ्गवृत्तित्वाद्भवन्तमवश्यं सभाज - यिष्यतिती भावः । That lofty mountain would certainly receive you, his dear friend, through the tall trees grown upon his summits, when you would be Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy