________________
प्रथमः सर्गः ]
.
७७
अन्वय :~ तथा अपि आसन्ने त्वयि विरलविरलान् प्रावृषेण्योदबिन्दून् वस्त्रकोपं विसृजति सति आम्रकूटः सानुमान् अध्वश्रमपरिगतं प्रान्तपर्यस्तवीणं सुरतरसिकं सिद्धद्वन्द्वं अश्मवेष्मोदरेषु वक्ष्यति ।
त्वयीत्यादि । तथा अपि तथा हि । आसन्ने समीपतां गते त्वयि भवति विरलविरलान् विरलप्रकारान्। विरलप्रकाराः विरलविरलाः । तान् । विरलत्वेनेत्यर्थः । 'प्रकारे गुणोक्तेवा' इति प्रकारार्थे द्विः । प्रावृषेण्योदबिन्दुन् वर्षाकालजलबिन्दुतुल्यपृषन्ति । प्रावृषि भवाः प्रावृषेण्याः । 'प्रावृष एण्यः ' इति एण्यो भवार्थे । अस्य मेघस्याऽकालिकत्वात्तद्विन्दूनां प्रावृषेण्यत्वं न सम्भवति । तथापि तेषामकालभवमेघवृष्टोदबिन्दूनां प्रावृषेण्यबिन्दुतुल्यत्वमाचिख्यासुः महाकविः प्रावृषेण्यविशेषणेन विशिनष्टि । अतः प्रावृषेण्याः इव प्रावृषेण्याः इत्यर्थो ग्राह्यः । ' देवपादिभ्यः' इतावार्थस्य कस्योस् । उदकस्य बिन्दवः उदबिन्दवः । 'मन्यौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे' इति उदकस्योंदादेशः धुभूतबिन्दुद्रव्यस्य पूर्यत्वाभावेऽपि । प्रावृषेण्याश्च ते उदबिन्दवश्व प्रावृषेण्योदबिन्दवः । तान् । वस्त्रनोपं । वस्त्रं यावता कोपितं आर्दमात्रं भवति तावदेव नाधिकमित्यर्थः । 'चेलार्थे कोपेः' इति वर्षप्रमाणे नोपयतेराद्रीकरणाCण्णम् । विसृजति सति वर्षति सति । यद्भावाद्भावगतिः' इति ईप् । आम्रकूटः आम्रकूटाभिधानः । आम्राः आम्रवृक्षाः कूटे सानुप्रदेशे यस्य सः। 'कूटोऽस्त्री राशिपूरिदम्भमायानृतेष्वपि । तुच्छेऽद्रिशृङ्गे सीराङ्गे यन्त्रायोधननिश्चले' इति विश्वलोचने । • सानुमान् पर्वतः । सानूनि कूटाः अस्य सन्तीति सानुमान् । 'सानुः शृङ्ग बुधेऽरण्ये
वात्यायां पल्लवे पथि ' इति विश्वलोचने । अध्वश्रमपरिगतं मार्गश्रमव्याप्तं । मार्गश्रमखिन्नमित्यर्थः । अध्वनः मार्गस्य श्रमः अध्वश्रमः । तेन परिगतं व्याप्त अध्वश्रमपरिगतं । प्रान्तपर्यस्तवीणं समीपप्रदेशस्थापितवीणावाद्यं । प्रान्ते समीपप्रदेशे पर्यस्ता त्यक्ता वीणा येन तत् । सुरतरसिकं अनुभूयमानसुरतसुखं । रसः सुखं अस्य अस्तीति रसिकः । 'अत इनिठनौ' इति ठन्। सुरतस्य रसिकं सुरतरसिकं । निधुवनसुखप्रीतमित्यर्थः । सिद्धद्वन्दं देवविशेषयुगलम् । 'युग्मं द्वन्दं यमं द्वैतं' इति धनञ्जयः । अश्मवेश्मोदरेषु शिलानिखातसम्राकारस्थानमध्येषु । अश्मनां शिलानां वेश्मानि अश्मवेइमानि । तेषां उरेषु मध्यप्रदेशेषु । वक्ष्यति वोढा । वहेलृट् धारयिष्यति । तत्र सिद्धयुगलं गुहायां प्रविश्य सुरतरसमनुभवत्त्वदागमनं सूचयिष्यतीति भावः ।
Moreover, in the same way, the mountain Amrakuta would bear a couple of Siddha Gods, fatigued by journey, keeping their lutes
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org