SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये अन्वयः बहुविलसितैः स्वैः निर्झरैः आत्तकान्तिः, धुततटवनोपान्तदेशैः मरुद्भिः प्रत्युद्यातः नितान्तं तुङ्गः अद्रिः आसारप्रशमितवनोपद्रवं पथगतिपरिश्रान्तितान्तं त्वां मूर्ध्ना उच्चैः साधु वक्ष्यति । ७६ C वक्ष्यतीत्यादि । बहुविलसितैः विविधशोभैः विविधकान्तिभिः विविधक्रीडनैः वा । बहु नानाविधं विलसितं विलासः शोभा कान्तिः क्रीडनं वा येषां ते । तैः । नभावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । 'विलासो हावलीलयोः' इति विश्वलोचने । स्वैः स्वकीयैः । * स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति विश्वलोचने । निर्झरैः जलप्रवाहैः । ' प्रवाहो निर्झरो झरः > इत्यमरः । आत्तकान्तिः आत्ता उररीकृता कान्तिः तेजः येन सः । उपात्ततेजस्कः इत्यर्थः धुततटवनोपान्तदेशैः प्रकम्पिततटवनसमीपप्रदेशैः । धुताः प्रकम्पिताः तटवनस्यो - पान्तदेशाः समीपप्रदेशाः यैः । तैः मरुद्भिः समीरणैः । मरुतः साधनीकृत्येत्यर्थः । यद्वा मरुद्भिः सहेत्यर्थः ' सहार्थे भा' इति भायाः सहार्थत्वात् । प्रतुद्यातः सभाज - यितुं प्रत्युद्गतः । नितान्तं अत्यन्तं । अतिशयेनेत्यर्थः । ' तीत्रैकान्तनितान्तानि गाढवाढदृढानि च इत्यमरः । तुङ्गः उन्नतः अद्रिः कश्चन पर्वतः आसारप्रशातवनोपद्रवं धारावृष्टिजलेन दूरीकृतदवाग्निसञ्जनितदुःखं । आसारः धारापातः । , धारासम्पात आसारः इत्यमरः । तेन प्रशमितः प्रशान्ति नीतः वनानां अरण्यानां उपद्रवः दावाग्मिकृतोपद्रवः येन सः । अनेन मेघस्य कृतोपकारत्वं ध्वनितं । पथगतिपरिश्रान्तितान्तं मार्गगमनजनितपरिश्रमदूनं । पथगतिः मार्गक्रमणं । तस्मात् जाता परिश्रान्तिः परिश्रमः तया तान्तः दूनः तम् | त्वां भवन्तं मूर्ध्ना शिरसा उच्चैः उन्नतं यथा स्यात् तथा साधु सम्यक्तया वक्ष्यति वोढा । वहेलृट् । उद्धरिष्यतीत्यर्थः । , The mountain, possessing extra-ordinary height, assuming lustre on account of its rivulets possessing abundant brilliance, welcoming you through winds that would be shaking the skirts of the groves growIL on the slopes, would bear you well very high who would be fatigued very much by the journey, upon his head (i. e. top), owing to your having dispelled the distress of its forests by means of showers. " - त्वय्यासन्ने विरलविरलान् प्रावृषेण्योदबिन्दून् वस्त्रक्रोपं विसृजति तथाऽप्यश्मवेश्मोदरेषु । सिद्धद्वन्द्वं सुरतरसिकं प्रान्तपर्यस्तवीणं वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy