SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] यदीत्यादि । भिक्षो मुने! यदि चेत् दीर्घकालं महत्कालं यावत् । 'कालाध्वनोरविच्छेदे' इति इप् । प्रत्यावृत्तस्वविषयरतेः विनष्टविषयाकाङ्क्षस्य । प्रत्यावृत्ता दूरीभूता विनष्टा स्वस्य विषयरतिः विषयाकाङ्क्षा विषयासाक्तिर्वा यस्य सः। तस्य । तव भवतः । जनपदप्रेक्षणे जनपदावलोकनार्थ । 'हेतौ सर्वाः प्रायः' इति हेतावीप् । जनपदानां नीवृतां (देशानां ) प्रेक्षणं अवलोकनं जनपदप्रेक्षगं। तस्मिन् । कदाचित् कचित्काले औत्सुक्यं उन्मनायितत्वं (उत्कण्ठा वा) अस्ति भविष्यति । 'लोटि हेतौ' इति वयति लट् । तत् तर्हि परिसरितं सरितं नदी वर्जयित्वा । अत्र परिशब्दो वर्जनार्थः । 'परि''दोषाख्यानेऽपि वर्जने' इति विश्वलोचने। तस्यात्र वजनार्थत्वं तु सस्य हरूपत्वात् वर्जनार्थेनैव परिणा हसस्य शब्दशास्त्रेण विहितत्वात् । 'पर्यपाबहिरश्चः' इति वर्जनार्थस्य परिशब्दस्य सुबन्तेन सः विहितः । एतत्सूत्रव्याख्यायां यत् 'परित्रिगत वृष्टो देवः । परि त्रिगर्तेभ्यः' इत्युदाहृतं तत्र 'परि त्रिगर्तेभ्यः' इत्यत्र 'त्रिगर्तेभ्यः' इत्यस्य कान्तत्वं 'वज्र्येऽपपरिभ्यां' इत्यनेनैव सम्भवति, नान्यथा । अतोऽत्र हसत्वात्परिशब्दः वर्जनार्थ एव ग्राह्यः । ततश्च 'परिसरितं" इत्यस्य 'सरितं वर्जयित्वा' इत्यर्थ एव समीचीनः, न 'सरितं सरितं परि' इति, अस्य शब्दशास्त्रविरोधित्वात् । किश्चित् कियत् भ्रमित्वा परिभ्रम्य । अटित्वेत्यर्थः । दक्षिणाशां दक्षिणां दिशं । 'आशा तृष्णादिशोः' इति विश्वलोचने। पेपीयस्व चक्षुषा पौनः पुन्येन पानं कुरुष्व । 'पीञ् पाने' इति धातोः यङि लोट् । पश्चात् अनन्तरं लघुगतिः शीघ्रगामी । 'लघु क्षिप्रमरं द्रुतं' इत्यमरः । भूयः पुनः उत्तरेण एव उत्तरदिशा एव । 'वैनोऽदूरेऽकायाः' इत्येनः । ब्रज गच्छ । Oh sago I if a strong desiro ever arose in you, from whom the desire for enjoying the objects has disappeared since very long, for enjoying the sight of the country-side, then having wandered over a little beyond the river, you should deeply drink in ( with your eyes ) the regious situated in the southern direction and then, you, possessing high speed, should proceed on again by the way leading to the north (or running in the northen direction ). वक्ष्यत्युच्चैः पथगतिपरिश्रान्तितान्तं नितान्तं तुङ्गोऽद्रिः स्वैर्बहुविलसितैनिझरैरात्तकान्तिः । प्रत्युद्यातो धुततटवनोपान्तदेशैर्मरुद्भिः त्वामासारप्रशमितवनोपद्रवं साधु मूर्ना ॥ ६५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy