SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये 3 'तृज्व्याश्चाहें ' इत्यहार्थं व्यत्यः । देशान् विषयान् सिंहावलोकात् सिंहवत्पश्चादवलोक्य | सिंहस्येवावलोकः सिंहावलोकः । तस्मात् । यद्वा एत्य अवलोक्यते अस्मिन्नित्यवलोकः । अवलोकनस्थानमित्यर्थः । ' पुंखो घः प्रायः ' इत्याधारे घः । सिंहस्य अवलोकः अवलोकस्थानं सिंहावलोकः । तस्मात् । अत्युन्नतस्थानादित्यर्थः । उन्नततमात्स्थानात् सकलान् प्रेक्ष्येत्यर्थः । प्रेक्ष्य अवलोक्य तत्रत्यानां तत्र भवानां तत्र जातानां वा । ' क्वामेहाविस्तरूयात्त्यत्च इति शेषार्थे त्यच् । जनपदभुवां । जनपदे देशे भवन्तीति जनपदभुवः । तेषां । जानपदानामित्यर्थः । तापं ऊष्माणं दुःखं वा आहृत्य परिहृत्य । विनिवार्येत्यर्थः । पश्चात् अनन्तरं सद्यः सीरोत्कषणसुरभिक्षेत्रं तत्क्षणे हलफालप्रकृष्टत्वात् त्वज्जलबिन्दुपाताद्रीकृतत्वात् जनितसौगन्ध्यक्षेत्रं । सद्यः तत्क्षण एव सीरेण हलफालेन उत्कषणं कर्षणं सद्यः सीरोत्कषणं । तेन सुरभीणि जनितसौरभाणि क्षेत्राणि केदाराणि यत्र तत् । सीरस्तु लाङ्गले पुंसि सारो दिनपतावपि ' इति विश्वलोचने । ' क्षेत्रं शरीरे दारेषु केदारे सिद्धसंश्रये ' इति विश्वलोचने । मालं उन्नतभूप्रदेशं । 'मालमुन्नतभूतलम्' इत्युत्पलमालायाम् । आरुह्य उल्लुत्य इमं आसन्नंजनपदं प्रत्यासन्नममुं देशं प्रीत्या प्रमोदेन लङ्घय अतिक्रामस्व । विलम्ब्य अलं विम्बं मा कार्षीः । 'निषेधेऽलखल्वोः क्त्वा ' इति निषेधार्थेऽलमः प्रयोगे क्त्वा । ( ८ ७४ Oh cloud casting your glance backwards like a lion at all the provinces worthy of being enjoyed sight of and having dispelled the troubles of those that live in the country regions forming the constituent parts of those provinces, and afterwards having ascended the elevated part of the ground the fields whercon being ploughed very recently would be emitting fragrance, you should pass over the region that is in the vicinity very delightfully; you should not delay at all. 1 द्यौत्सुक्यं तव जनपदप्रेक्षणे दीर्घकालं प्रत्यावृत्तस्वविषयरतेरस्ति भिक्षो कदाचित् । तत्पेपीयस्व परिसरितं दक्षिणाशां भ्रमित्वा किञ्चित्पश्चादद्व्रज लघुगतिर्भूय एवोत्तरेण ।। ६४ ॥ अन्वयः - भिक्षो, यदि दीर्घकालं प्रत्यावृत्तस्वविषयरतेः तव जनपदप्रेक्षणे कदाचित् औत्सुक्यं अस्ति तत् परिसरितं किञ्चित् भ्रमित्वा दक्षिणाशां पेपीयस्व । पश्चात् लघुगतिः भूयः उत्तरेण एव ब्रज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy