SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] न्मालाश्लिष्टस्वेदहः इत्यर्थः । भास्वदिन्द्रायुधश्रीः भास्वरेन्द्रधनुस्सौन्दर्यः । भास्वतः दीप्यमानस्य इन्द्रायुधस्य इन्द्रधनुषः श्रीरिव श्रीः यस्य सः । 'ईबुपमानपूर्वस्य द्युखं गतार्थत्वात् ' इति युखं । उद्यन्मन्द्रस्तनितसुभगः प्रादुर्भवता गम्भीरगर्जितेन मनोहरः । उद्यत् प्रादुर्भवत् मन्द्रं गम्भीरं च तत्स्तनितं गर्जित् उद्यन्मन्द्रस्तनितं । तेन सुभगः मनोहरः । 'कलो मन्द्रस्तुः गम्मीरे' इत्यमरः । स्तनितं स्तनः गर्जितध्वनिः । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । स्निग्धनीलाञ्जनाभः तैलार्दीकृतनीलरसाञ्जनवर्णः । स्निग्धं तैलार्दीकृतं च तन्नील कृष्णवर्ण अञ्जनं रसाञ्जनं स्निग्धनीलाञ्जनं । तस्य आभा इव आभा प्रभा यस्य सः । पूर्ववद्युखम् । त्वत्पयोबिन्दुपातप्रीतिस्निग्धैः भवज्जलपृषत्पतनसञ्जनितप्रीतिप्राप्तस्नेहैः तव पयः त्वत्पयः । त्वत्पयस: बिन्दवः पूषन्ति त्वत्पयोबिन्दवः। तेषां पातैः सञ्जनितया प्रीत्या स्निग्धाः आविभूतस्नेहाः । तैः । जनदपवधूलोचनैः देशीयस्त्रीनयनैः । जनानां पदं स्थानं जनपदः । पुंस्त्वं लोकात् ! जनपदवास्तव्याः वध्वः जनपदवध्वः । तासां लोचनः नयनैः। पीयमानः नितरां सादरं वीक्ष्यमाणः। त्वं शीघ्रं झटिति यायाः गच्छेः । जानपदवधूकृतातिथ्यत्वात्तत्र कालयापनं मा कार्षीरिति भावः । Oh artificial cloud ! you, intermingled with the diffusion of the successive flashes of lightnings, possessing lustre of the shining Indra's bow, pleasant owing to the production of grave thunderings, possessing an appearance like that of collyrium wetted with oil, drunk by the eyes of the village women that would be full of affection felt through the pleasure enjoyed by them owing to the discharge of the drops of your water, should proceed on liurriedly. दृश्यान्देशाञ्जलद सकलान्प्रेक्ष्य सिंहावलोकात्___ तत्रत्यानां जनपदभुवां तापमाहृत्य पश्चात् । प्रीत्यासन्नं जनपदमिमं लङ्घयालं विलम्ब्य सद्यःसीरोत्कषणसुरभिक्षेत्रमारुह्य मालं ॥ ६३ ॥ अन्ययः-- हे जलद ! सकलान् दृश्यान् देशान् सिंहावलोकात् प्रेक्ष्य तत्रत्यानां जनपदभुवां तापं आहृत्य पश्चात् सद्यः सीरोत्कषणसुरभिक्षेत्रं मालं आरुह्य इमं आसन्नं जनपदं प्रीत्या लङ्घय, विलम्ब्य अलम् । दृश्यानित्यादि। हे जलद ! मेघ सकलान् निखिलान् दृश्यान् दर्शनार्हान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy