________________
प्रथमः सर्गः]
प्रस्थाने ते विरचितमितस्तोरणं नूनमुच्चैः
काञ्चीदाम श्लथितमथवा स्वर्गलक्ष्म्याः किमेतत् । वर्णोपन्नं धनुरुत समाविर्भवत्यत्युदग्रं
रत्नच्छायव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् ॥ ५७ ॥ नूनं भूम्यान्तरितविसरं भोगिमूर्धन्यरत्न___ ज्योतिश्चक्रं वियति किमितो दृश्यते भूमिरन्ध्रात् । प्रायेणेदं दिनकरकराश्लिष्टमेघाश्रितं यद
वल्मीकापात्प्रभवति धनुःखण्डमाखण्डलस्य ॥५८॥ अन्वय :-( यत् ) एतत् पुरस्तात् रत्नच्छायव्यतिकरः इव समाविर्भवति तत् ते प्रस्थाने उच्चैः विरचितं नूनं तोरणम् ? अथवा एतत् स्वर्गलक्ष्म्याः श्लथित काञ्चीदाम किम् ? उत (एतत् ) अत्युदग्रं वर्णोपघ्नं धनुः, नूनं (यत् ) इतः भूमिरन्ध्रात् वियति दृश्यते (तत्) भूम्या अन्तरितविसरं भोगिमूर्धन्यरत्नज्योतिश्चक्रं किम् ? यत् इदं वल्मीकानात् प्रभवति तत् प्रायेण दिनकरकराश्लिष्टमेघाश्रितं आखण्डलस्य धनुःखण्डम् ।
प्रस्थाने इत्यादि युग्मम् । यत् एतत् इदं पुरस्तात् अग्रे। 'पुरस्तात् प्रथमे प्राच्यामग्रतीर्थपुरार्थयोः' इति विश्वलोचने । रत्नच्छायव्यतिकर इव । रत्नानां मणीनां छायाः सत्कान्तयः रत्नच्छायं । 'छाया बहूनां ' इति छायान्तषत्वान्नप्त्वम् । एकरत्नच्छायायाः एकत्वाद्यतिकरस्याऽसम्भवात् पूर्वपदस्यबहुत्वम् । 'रत्नच्छायाव्यतिकरः' इति पाठे तु पूर्वपदोक्तरत्नार्थस्य बहुत्वेऽपि 'सेनासुराच्छायाशालानिशा वा' इति छायान्तस्य षसः पूर्वपदोक्तार्थबाहूल्येऽपि नप्त्वस्य वैकल्पिकत्वान्नप्त्वभावः । 'छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने' इति विश्वलोचने । रत्नच्छायानां व्यतिकरः व्यतिषङ्गः रत्नच्छायाव्यतिकरः । ' भवेद्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः' इति विश्वलोचने । सः इव प्रेक्ष्य प्रेक्षणा ! ' तृज्च्याश्चोह' इत्य ऽर्थव्यः । ते तव मेघरूपधारिणः मरुभूतिचरस्य । प्रस्थाने गमनकाले । समाविर्भवति प्रादुर्भवति । 'प्रस्थानं गमनं गमः' इत्यमरः । तदेतत् । उच्चैः उन्नतं यथा स्यात् तथा बिरचितं आरचितं नूनं वितर्के । संशये इत्यर्थः । 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । तोरणं द्वारभूषणं आम्रपत्रपुष्पादिविरचितं मङ्गलकार्ये यद्दवाराग्रे निबध्यते तत् । रत्नच्छायन्यतिकर इव प्रेक्षणाईमिदं पुरस्ताद् दृश्यमानं किं तोरणमुतान्यत्किञ्चित् इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org