SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [पार्श्वभ्युदये अन्वयः-दिग्भ्यः बिभ्यत् भीलुकः पुमान् अद्रीन् विषमसरितः दुर्गमान् च प्रदेशान् उलय तत्र कथमिव गच्छेत् ? तत् मा रोदीः । व्योममार्गानुसारी (त्वं) पथि दिङ्नागानां स्थूलहस्तावलेपान् परिहरन् सुनिपुणं वज्र । दिग्भ्य इत्यादि । दिग्भ्यः दिशाभ्यः बिभ्यत् भीतिं प्राप्नुवन् भीलुका भीरुः । 'भीरुभीरुकभीलुकाः ' इत्यमरः । 'भ्यः क्रुक्लुको ' इति क्लुक् । पुमान् मनुष्यः अद्रीन् पर्वतान् विषमसरितः । विषमाः दुर्गाश्च ताः सरितः नद्यः विषमसरितः । दुर्गमान् च दुर्लध्यान् । दुःखेन गम्यन्ते इति दुर्गमाः । तान् । प्रदेशान् स्थानानि । दुगटाटवीस्थानानीत्यर्थः । उल्लङ्य अतीत्य तत्र तस्मिन् कमठचरशम्बरासुरप्रदर्शितमार्गे कथमिव गच्छेत् कथं गन्तुं शक्नुयात् ? 'शकि लिङ् च ' इति शक्यर्थे लिङ् । कथमपि गन्तुं न शक्नुयादिति भावः । यस्य स्वभावभीरोः भयकारणाभावेऽपि दिग्भ्योऽपि भयं जायते तस्याद्यादिदुर्गदेशरूपभयकारणे विद्यमाने सति तेनानृजुना मार्गेण कथमपि गमनं न सम्भवतीत्यभिप्रायः । तत् तस्य भयकारणस्य विद्यमानत्वात् स्वस्य भीरुत्वात् तत्र गमनप्रसङ्गमनुलक्ष्य मा रोदीः रोदन मा कुरु । तव गगनगामित्वात् भयकारणानां च भूप्रदेशस्थितत्वात् नास्त्यत्र विषये रोदनकारणमिति कमठचराभिप्रायः । व्योममार्गानुसारी। व्योमैव व्योम्नि वा मार्गः व्योमभागः । तमनुसरतीति व्योममार्गानुसारी । आकाशमार्गेण गन्तुं क्षमः इत्यर्थः । त्वं पथि मार्गे दिङ्नागानां दिग्गजानां । स्थूलहस्तावलेपान् । स्थूलानां पीवराणां हस्तानां शुण्डादण्डानां अवलेपाः गर्वाः । तान् । 'अवलेपस्तु दोषे स्याद्र्वे लेपे च सङ्गमे' इति 'द्वयोस्तु हस्तो नक्षत्रे हस्तः करिकरे करे । सप्रकोष्ठाततकरे हस्तः केशात्परश्चये' इति च विश्वलोचने। परिहरन् खर्वीकुर्वन् । दूरीकुर्वन्नित्यर्थः । सुनिपुणं । क्षेम यथा स्यात्तथा व्रज गच्छ । यद्यपि भीरुत्वात्तेन मार्गेण गन्तुमक्षमा भवान् तथापि भवत आकाशगामित्वात्तस्य मार्गस्य तादृशत्वेऽपि न ते कथमपि कुतोऽपि भयं सम्भवेदिति भावः ।। How can a timid onc, afraid of the quarters (even ), travel by that ( way ) while travelling whereon he has to transgress mountains, cross impassable rivers and inaccessible regions ? Do not lament for that reason. You possessing the capacity of moving through the sky, proceed on without any injury being done to you, quelling, on your way, the pride taken by the quarter-elephants in the bigness of their trunks. En Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy