SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] ६५ वायां च स्पृक्कायां च मता वधूः' इति विश्वलोचने । सिद्धिं सङ्केताभिप्रापणकार्यसिद्धि प्राप्य प्रापय्य । अन्तर्भावितण्यर्थत्वात्प्रापय्येत्यर्थः । सङ्केताभिप्रापणरूपं कार्य निष्पत्ति गमयित्वेत्यर्थः । 'सिद्धिनिष्पत्तियोगयोः । सद्व्याख्याभेषजे सिद्धिः सिद्धिवृध्द्याख्यभेषजे' इति विश्वलोचने । यद्वाऽभिलषितार्थनिष्पत्ति विधायेत्यर्थः । दिव्यान् दिविभवान्नत एव मनोहरान् भोगान् सुखानि सुखोत्पादकान्पञ्चेन्द्रियविषयान्वा । ' पुंसि भोगः . सुखेऽपि स्यादहेश्च प.णकाययोः । निवशे गणिकादीनां भोजने पालने वने' इति विश्वलोचने । यद्वा स्वर्गस्त्रीणां निवेशान् इति स्वयंस्त्रीभिः विषयसुखानीति वाऽभिप्रायः । समनुभवितुं अनुभूतिगोचरतां नेतुं । भोक्तुमित्यर्थः । कामचारे स्वैरविहारार्थ । 'हेतौ सर्वाः प्रायः' इति हेतावीप् । कामुकः अभिलाषुकः त्वं । सरसनिचुलात् । सरसाः प्रत्ययाः आर्दाः वा निचुलाः हिजलाः स्थलवेतसाः यस्मिस्तस्मात् । “निचुलस्तु निचोले स्यानिचुलो हिजलद्रुमे' इति विश्वलोचने। 'वानीरे कविभेदे स्यानिचुलः । स्थलवेतसे' इति शब्दार्णवे । अस्मात् स्थानात् यत्र भगवान् ध्यानकतानः आसीत् तस्मात् स्थानात् । यद्वा यत्र भगवान् मुग्धसिद्धाङ्गनाभिः चकितचकितं दृष्टस्तस्मा• स्थानात् । उदङ्मुखः उदीचीनमुखः सन् खं आकाशं सद्यः सपदि । 'सद्यः सपदि तत्क्षणे' इत्यमरः । उत्पत उद्गच्छ । अलकाया उदीचीनत्वात् उदक्तात् प्रस्थान कुर्वित्यभिप्रायः। यस्तताः मुग्धसिद्धाङ्गनाः भवत्पातशङ्काकुलाश्चकितचकितास्ततस्तस्मात्सरसनिचुल.स्थानादलकामभियियामुरुदीचीनमुखीभूय शीघ्रतरमने गच्छ येन तास भयाकुलीकृतस्वान्तानां भवत्पातशङ्काजनितं भयं विद्रुतं स्यादिति कमठचरयक्षाभिप्रायः । ___You, desirous of moving (or travelling) at your own will to enjoy the most excellent heavenly pleasures, having assumed that proper and celestial form of a cloud and having fulflled the desires of women at the time of manifesting the flashes of lightning, should, with your face turned northwards, fly up in the sky very quickly form that place overgrown with fresh Nichula grass for that reason (i. e. for your being looked at with a fear of your down fall by thesimple beautfiful women of the Siddhas. ) to go your journey. दिग्भ्यो बिभ्यत्कथमिव पुमान्भीलुकस्तत्र गच्छे___ दुल्लयाद्रीविषमसरितो दुर्गमांश्च प्रदेशान् । तन्मा रोदीज सुनिपुणं व्योममार्गानुसारी दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ ५६ ।। पार्श्वभ्युदये...५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy