________________
[पाश्र्वाभ्युदयेः
द्विष्ठत्वात्संशयस्य किञ्चित्सादृश्यनिबन्धनत्वात्संशयोऽयम् । अथवा किंवा । द्वितयां कोटिं संशयस्य व्याचष्टे । एतत् अग्रतो दृश्यमानमिदं स्वर्गलक्षम्याः दिव्याश्रियः । दिविभवायाः लक्ष्मीतुल्यविभ्रमायाः अङ्गनायाः इति वार्थः । श्लथितं शिथिलीभूतं काञ्चीदाम मेखलादाम । 'काञ्ची तु मेखलादाम्नि नीवृदन्तरगुञ्जयोः' इति विश्वलोचने । काञ्ची दाम मालेव काञ्चीदाम । किम् प्रश्ने। 'कि प्रश्नकुत्सयोः' इति विश्वलोचने । रत्नच्छायव्यतिकर इव प्रेक्षणीयस्य दर्शने जाते सति सञ्चतसंशयस्य जिज्ञासोरयं प्रश्नः । प्रेक्ष्यमाणस्य तस्य रत्नखचितकाञ्चीदाम्ना तुल्यत्वादसञ्जातनिर्णयस्य संदिहानस्य 'किमिदं काञ्चीदाम' इति प्रश्नः इत्यभिप्रायः । उत विकल्पे वितर्के था। 'उत प्रश्न वितर्केऽर्थेऽ प्युतात्यर्थविकल्पयोः' इति विश्वलोचने । एतत् अत्युदग्रं । ऊर्ध्वमग्रमस्य उग्रं । उच्छ्रितमित्यर्थः । अत्युदप्रमत्युच्छ्रितमित्यर्थः । 'उच्चत्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । वर्णोपघ्नं । वर्णरुपहन्यते सामीप्येन गम्यते इति वर्णोपघ्नं । 'घनान्तर्घणोद्धनापधनोपनसङ्घोद्धनिघं मूर्तिदेशात्याधानाङ्गासन्नगणशस्तनिमित्ते' इत्युपपूर्वाद्धन्तेराश्रयेऽभिधेयेकः निपात्यते घ्नश्च । नानाविधवर्णाश्रितमित्यर्थः । धनुः चापः। किम् ? नूनं वितर्के । इतः अस्मात् भूमिरन्ध्रात् । भूमेः भुवः रन्ध्र बिलं भूमिरन्धं । तत्मात् । वियति आकाशे दृश्यते दृक्पथमवतरति तत् तस्मात् भूम्या मेदिन्या। अन्तरितविसरं । अन्तरितः व्यव हितः विसरः प्रसरः यस्य तत् । विसरः प्रसरः पुंसि विसरो निकुरम्बके' इति विश्वलोचने । भोगिमूर्धन्यरत्नज्योतिश्चक्रं । भोगः फणः अस्य अस्तीति भोगी। फणाभृत् । 'पुंसि भोगः सुखेऽपि स्यादहेश्च फणकाययोः' इति 'भोगी भोगान्विते सर्प ग्रामण्यां राशि नापिते' इति च विश्वलोचने । भोगिनः फणाभृदिन्द्रस्य मूर्धन्यानि मूर्ति भवानि च तानि रत्नानि मणयः भोगिमूर्धन्यरत्नानि । 'देहाङ्गात् ' इति भवार्थे यः । तेषां ज्योतिषां तेजसां चक्रं इव चक्रं । वलयमित्यर्थः । 'ज्योतिस्तारामिभाज्वाला दृक्षुत्रा.
ध्वरात्मसु' इति वैजयन्ती । ' चक्रं सन्ये रथाङ्गेऽपि आम्रजालेऽम्भसाम्भ्रमे । कुलालकृत्यनिष्पत्तिभाण्डे राष्ट्रास्त्रभेदयोः' इति विश्वलोचने । किम् ? यत् इदं यदेतत् वल्मीकानात् । वल्मीकस्य वामलूरस्य अग्रमू-भागः वल्मीकाग्रं । तस्मात् । 'वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः' इति विश्वलोचने । 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकं' इत्यमरः । प्रभवति प्रादुर्भवति तत् प्रायेण बाहुल्येन । दिनकरकराश्लिष्टमेघाश्रितं । दिनकरस्य सूर्यस्य करैः किरणैः आश्लिष्टः आक्रान्तः दिनकरकराश्लिष्टः । स चाऽसौ मेघश्च । तमाश्रितं । आखण्डलस्य शचीपतेः । 'सङ्क्रन्दनो दुश्चयवनस्तुराषामेघवाहनः । आखण्डलः सहस्राक्षः ऋभुक्षाः' इत्यमरः । धनुःखण्डम् । धनुषः खण्डं धनुःखण्डं । “ इन्द्रचापं किल वक्ष्मीकान्तर्व्यवस्थितमहानागशिरोमणिकिरणसमूहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org