SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ६२ [ पार्श्वाभ्युदये by that way very happily enjoying the very light waters of currents whenever you would be growing very much emaciated. कामं यायाः पथि निगदिते कामगत्या विमानं प्रीत्यारूढः प्रथितमहिमा वारिवाहीव बन्धो । दृष्टोद्योगो नभसि विरहन खेचरीभिस्त्वमुच्चै - रद्रेः शृङ्ग हरति पवनः किंस्विदित्युन्मुखीभिः || ५३ ॥ अन्वयः - -बन्धो ! पवनः अद्रेः शृङ्गं उच्चैः हरति किंस्वित् ? इति उन्मु 'खीभिः खेचरीभिः दृष्टोद्योगः त्वं कामगत्या विमानं आरूढः प्रथितमहिमा वारिवाही इ नभसि विहरन् निगदिते पथि कामं यायाः । ८ काममित्यादि । हे बन्धो भ्रातः । प्राग्भवापेक्षयोक्तिरियमित्यवसेयम् । पवनः वायुः अद्रेः पर्वतस्य शृङ्गं सानु उच्चैः उर्ध्वं हरति नयति । वाहयतीत्यर्थः । किंखित् किम् ? किंविदिति वितर्के । इति एवं शङ्काकुलाभिः अतः एव उन्मुखीभिः । उद्गतं मुखं उन्मुखं । तदस्त्यासामित्युन्मुख्यः । ताभिः । उन्नतमुखीभिरित्यर्थः । स्वाङ्गानीचोऽस्फोङः ' इति ङी । खेचरीभिः विद्याधरमुग्धाङ्गनाभिः । खे चरतीति खेचरः । विद्याधरः विहायोगतिः । ' चरोऽट्' इत्याधारे वाचि चरेरट् टित्वाङ्क्षी च । विहायोगतिभिर्विद्याधरस्त्रीभिरित्यर्थः । दृष्टोद्योगः दृष्टः उद्योगः उर्ध्वगमनं यस्य सः । दृष्टोर्ध्वगीतरत्यर्थः । त्वं भवान् । कामगत्या विमानं । कामः अस्य अस्तीति कामः । मनः इत्यर्थः । कामस्य मनसः गतिः वेगः कामगतिः 'ओऽभ्रादिभ्यः ' इत्यो मत्वर्थीयः । कामगतिः इव कामगतिः । ' देवपथादिभ्यः' इतीवार्थस्य कस्योस् । कामगत्या कामगतिज्ञाप्यत्यर्थः । ' येनाङ्गविकारेत्थम्भावौ ' इति इत्थम्भावे भा ' शिखया टुमद्राक्षीच्छेतच्छत्रेण भूपतिं । केशवं शङ्खचक्राभ्यां त्रिभिर्नेत्रैः पिनाकिनम् |' इत्यत्र यथा । मनोजवमित्यर्थः । विमानं व्योमयानं । प्रीत्या प्रमोदेन आरूढः आरुह्य विमाने स्थितः । प्रथितमहिमा । प्रथितः प्रसिद्धिप्राप्तः महिमा माहात्म्यं यस्य स: । ' पृथ्वादेर्वेमन् ' इतीमंस्त्यः । वारिवाही इब । वारि जल वोढुं शीलमस्य वारिवाही | शीलार्थे णिन् । जलदः इवेत्यर्थः । नभसि आकाशे विहरन् विचरन् निगदिते पूर्वप्रतिपादिते पथि मार्गे कामं येथेच्छं । ' कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ' इत्यमरः । यायाः गच्छेः । Oh brother! you, whose upward movement would be looked at by Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy