SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] the females of Vidyadharas with their faces turned upwards, thinking * Is the wind carrying off the peak of a mountain very high up ? ', with your greatness displayed, moving in the sky like a cloud, should go, getting delightfully into an aerial car possessing as much unrestrained spoed as you liko, at your own will by the way described above. मय्यामुक्तस्फुरितकवचे नीलमेघायमाने मन्ये युक्तं मदनुकृतये वारिवाहायितं ते। मेघीभूतो ब्रज लघु ततः पातशङ्काकुलाभिः दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ॥ ५४ ॥ अन्वयः- आमुक्तस्फुरितकवचे मयि नीलमेघायमाने (सति) मदनुकृतये ते बारिवाहायितं युक्तं मन्ये । ततः मेघीभूतः पातशङ्काकुलाभिः मुग्धसिद्धाङ्गनाभिः चकितचंकितं दृष्टोत्साहः लघु व्रज । मयीत्यादि । आमुक्तस्फुरितकवचे । स्फुरितः स्फुरिततेजस्कश्चासौ कवचः वारवाणश्च स्फुरितकवचः । ' कवचः वारबाणे स्यात् पटहे गर्दभाण्डके' इति विश्वलोचने आमुक्तः बद्धः धृतः वा स्फुरितकवचः येन स आमुक्तस्फुरितकवचः । तस्मिन् । 'आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्' इति 'उरीच्छदः कङ्कटकोऽजगरकवचोऽ. स्त्रियाम्' इति चाऽमरः । मयि कमठचरे शम्बरासुरे मयि । नीलमेघायमाने। नीलः नीलवर्णः चाऽसौ मेघः नीलमेघः । नीलमेघः इव आचरतीति नीलमेघायमानः । तस्मिन् सति । 'डाउलोहितादिभ्यः ' इति क्यम् । 'वाक्यषः' इति दः । शानच् । मदनुकृतये । मम अनुकृतिः आकारानुकरणं मदनुकृतिः । तस्यै मदनुकृतये । मदाकृत्यनुकारार्थीमित्यर्थः । ते मरुभूतिचरस्य पार्श्वनाथस्य भवतः । वारिवाहायितं । वारि जलं वहतीति वारिवाहः इव आचरतीति वारिवाहायते । कर्मणि क्तः । मेघाकृतिधारणमित्यर्थः । युक्तं योग्यं मन्ये सम्भावयामि । ततः ते वारिवाहायितत्वस्योचितत्वात् । मेघीभूतः । 'अमेघः मेघः सम्पद्यमानः भवतीति मेघीभवति । मेघीभवति स्म मेघीभूतः । ' कृम्वस्तिव्योगऽभूततद्भाव सम्पद्यकर्तरि च्विः' इति च्विः । पातशङ्काकुलामिः । पातस्य पतनस्य शङ्का भयं पातशका । तया आकुलाः व्यस्ताः व्यग्रचित्ताः । ताभिः। 'व्यस्ते त्वप्रगुणाकुलौ' इत्यमरः । मुग्धसिद्धाङ्गनाभिः। सिद्धानां देवयोनिविशेषाणां अङ्गनाः शोभनास्त्रियः सिद्धागनाः। 'स्त्री नारी वनिता मुग्धा भामिनी भीराना । हलना कामिनी योषिद्योषा सीमन्तिनी वधूः' इति धन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy