SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] ६१ " 6 मनोहराः । ' लतायां विटपे वीरुधू' इति विश्वलोचने । पुष्पशय्याचितान्ताः । पुष्पाणां पुष्पैः वा विरचिता शय्याः शयनीयानि पुष्पशय्याः । ताभिः आचिताः छन्नाः अन्ताः प्रान्तप्रदेशाः येषां ते । 'आचितास्तु चिते छन्ने सङ्गृहीते चिलिङ्गकः । आचितः शकटोन्मेये पलानामयुतद्वये ' इति ' अन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतंक्लीवं न स्त्री प्रान्तेऽन्तिके त्रिषु ' इति च विश्वलोचने । रम्याः मनोहराः कृतकगिरयः । क्रीडार्थ विनिर्मिताः अद्रयः । यत्र च यस्मिन् कुटिले मार्गे च । खिन्नः खिन्नः भृशं अत्यर्थे । परिश्रान्तः सन् । क्षीणसामर्थ्यः सन् इत्यर्थः । ' प्राग्भृशाभीक्ष्णाविच्छेदे ' इति भृशार्थं द्विः । नानापुष्पद्रुमसुमनसां । नाना अनेकविधाश्च ते पुष्पद्रुमाः कुसुमवृक्षाः नानापुष्पद्रुमाः । तेषां सुमनसः पुष्पाणि । तासां । 'सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान्' इति विश्वलोचने । सौरभेण सुगन्धेन । सुरभिः एव सौरभं । तेन सौरभेण । सुरभिश्वम्पके चैत्रे वसन्ते गन्धके कवौ । स्वर्णे जातीफले चाऽब्जे त्रिषु मद्यसुगन्धयोः । ख्याते च स्त्री तु शल्लक्यां सुरभी मातृभेदयोः ' इति विश्वलोचने । आततेषु । आ समन्तात् ततेषु व्याप्तेषु। नानापुष्पद्रुमसुमनस्सौगन्ध्याक्रान्तेष्वित्यर्थः । शिखरिषु पर्वताधित्यका पर्वतप्रदेशेषु वा पदं चरणं न्यस्य स्थापयित्वा गन्तासि गमिष्यसि । ' स्यतासी लृस्वोः (लृल्रोः ) ' इति लुटि तास्त्यः । तं अनृजुं मार्गे प्रोच्यमानं कथयितुमुपक्रान्तं । शृणु श्रवणातिथितां प्रापय । तेन कुटिलेन तेन मार्गेण तव मरुभूतिचरपार्श्वस्य व्रज्या गमनं । ' ब्रज्याऽटाट्या पर्यटनम् ' इत्यमरः । ब्रज्यजः क्यप् ' इति भावे क्यप् । सुखकरी सौख्यजननी । स्यादिति शेषः । तत्र तस्मिन् कुटिलवर्त्मनि क्षीणः क्षीणः अत्यर्थं क्षीणः । जलवर्षणादत्यर्थं कृशतनुत्वं प्राप्तः । अत्राऽनि भृशार्थे द्विः । त्वं स्रोतसां प्रवाहाणां परिलघु गुरुत्वदोषविकलं पयःपानीयं उपभुज्य उपयुज्य । पीत्वेत्यर्थः । सुखेन श्रमहीनं यायाः गच्छेः । या प्रापणे' लिङ् प्रापणमिह गतिः । C " C Of those even, one way is crooked and a certain one is straight. Of those two, learn from me about the one, which is being deseribed, though crooked, which would lead you happily, on which there are beautiful artificial hills charming on account of the groves of various creepers, the regions of which are crammed with floral beds, the sloping regions of which are worthy of being enjoyed, and on which you would be going stepping on mountains pervaded with the fragrance of the flowers of various flowery trees whenever you would be very tired. Your journey by that way will bring delight to you. Make your journey Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy