________________
प्रथमः सर्गः ]
अन्वयः- भूयश्च कार्यसिद्ध्यै प्रयत्य सिषिधुषः अनुस्मर । नः महति विधुरे प्रायेण देवतानुस्मृतिः इष्टा । अथवा काले काले भवतः यस्य संयोगं एत्य युद्धे कृतपरिकरः खड्गी क्षालितागःपरागः स्नातः धौताम्बरनिवसनः दिव्यगन्धानुलिप्तः स्रग्वी दन्तच्छदविरचितारक्तताम्बूलरागः भवति तं पुंसां वन्द्यैः रघुपतिपदैः मेखलासु अङ्कितं सिद्धिक्षेत्रं तं रामशैलं शरणं गच्छ।
भूयश्चेत्यादि युग्मम् । भूयश्च पुनश्च । कार्यसिद्ध्यै । कार्यस्य सिद्धिः साफल्यं कार्यसिद्धिः । तस्यै कार्यसिद्ध्यै। कार्यसिद्धिं कर्तुमित्यर्थः 'ध्वर्थवाचोड
र्थात्कमणि' इति कर्मण्यम् । प्रयत्य प्रयत्नं विधाय। सिषिधुषः सिद्धान् तपस्विविशेषान् सम्प्राप्तमुक्तीन् वा । सिद्धावस्था प्राप्तानित्यर्थः । 'विधु संराद्धौ' इत्यस्माद्धोः परस्य लिट: स्थाने ' लिटाकसुकानौ' इति कसुः । ' वसोर्वस्योश्' इति भस्य वसोर्यकारस्योश् । 'कस्यैकाज्यसः ' इति धोरेकाच्वात् कसौपरे इडागमः । अनुस्मर अनुचिन्तनं कुरु । नः अस्माकम् । महति विधुरे महत्यां विपत्ती प्राप्तायां सत्यां । 'विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतम् ' इति विश्वलोचने। प्रायेण बाहुल्येन । देवतानुस्मृति: । देवतानामनुस्मृतिः अनुस्मरणं देवतानुस्मृतिः । देवतास्मरणमित्यर्थः । इष्टा आर्यैरभिलषिता। कार्यसिद्ध्यै सिद्धादितपस्विविशेषमात्रस्मरणं पर्याप्तं । महत्यां विपत्तौ तु न तत्स्मरणं पर्याप्तं, अपि तु देवतानामेव स्मरणं महद्भिरिष्टं विहितं । विजयानरूपकार्यसिद्ध्यर्थ सिद्धविशेषाणां तव स्मर्तव्यत्वेऽपि मया सह युयुत्सास्ते महती विपत्तिर्दुष्परिहारा अवश्यं भवेदिति देवतास्मरणमपि त्वयाऽवश्यं कर्तव्यं, अन्यथा तव विनाशोऽवश्यं भवेदिति कमठचराभिप्रायः । अथवा यद्वा काले काले भवतः प्रतिकालं विद्यमानस्य । सर्वथा सतः इत्यर्थः । यस्य रामशैलस्य संयोग सम्बन्धं एत्य प्राप्य । क्षालितागःपरागः। आगसः पापस्य परागः रजः कर्मस्कन्धाः 'आगःपरागाः । ' आगाः पापाराधयोः' इति 'परागः पुष्परजसि स्नानीयादो रजस्यपि । विख्यातावुपरागेऽपि चन्दने पर्वतान्तरे' इति च विश्वलोचने । क्षालिताः क्षयं क्षयोपशमं उपशमं वा प्रापिताः आगःपरागाः येन सः क्षालितागः परागः । युद्धे सङ्ग्रामार्थं । ' हेतौ सर्वाः प्रायः ' इति हेतावीप् । कृतपरिकरः । कृतः बद्धः परिकरः येन सः । युद्धार्थ कृतसन्नाहः इत्यर्थः । खड्गी । खड्गः निस्त्रिंशः अस्य अस्तीति खड्गी । निस्त्रिंशभृदित्यर्थः । 'खड्गः खड्गिनि निस्त्रिंशे खड्गिशृङ्गे जिनान्तरे' इति विश्वलोचने । स्नातः कृतस्नानः धौताम्बरनिवसनः धौतं च तत् अम्बरं कार्पासं च धौताम्बरं । 'अम्बरं रसकार्पासव्योमरागसुगन्धके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org