________________
प्रथमः सर्गः ]
कामोन्मादादेव स्खलितगमनाः सीधुपानोन्मत्तगतयः । यथा भवान् ध्यानैकतानत्वात् अनुन्मुखः अनुन्नमितमुखकमलः तथैते राजहंसाः इतवीर्यत्वादनुन्मुखाः अधोमुखाः । यथा भवान् त्यक्तपरिग्रहत्वात् सन्तताशः [ समन्तात् तता परिहृता आशा तृष्णयेन सः ] परिहृतविषयाशः तथा एते हंसाः अपि सन्तताशाः व्याप्तदिङ्मण्डलाः । यथा भवान् पवनपदवीं [ पवनी शुद्धा चाऽसो पदवी मार्गश्च ] रत्नत्रयरूपा शुद्धमोक्षमार्गाश्रितः तथा एते राजहंसाः अपि पवनपदवीं आकाशमार्गमाश्रिताः । अत एव ते राजहंसा: अनुरूपाः त्वत्तुल्यधर्माणः इति भावः । एते राजहंसाः अभी हंसपक्षिविशेषाः । राजानः एव हंसाः योगिनः राजहंसाः । ' हंसः सूर्यमलयोः । कृष्णेऽङ्गवाते निर्लोभनृपतौ परमात्मनि ॥ योगिमन्त्रादिभेदे च मत्सरे तुर• गान्तरे ' इति विश्वलोचने । राजहंसाः इव राजहंसाः । ' देवपथादिभ्यः ' इति इवार्थस्य कस्योस् । 'राजहंसास्तु चरणैलोहितैः सिताः । मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः इत्यमरः । यथा परमयोगिनः भगवत्तुल्यत्वात् तदनुकूलाः तथा एते राजहंसाः अपि तथात्वादेव तदनुकूलाः इत्यर्थोऽन्यत्र ग्राह्यः । नभसि आकाशे भवतः तव सहायाः सयात्राः । ' सहायस्तु सयात्रे स्यात् ' इति शब्दार्णवे । सम्पत्स्यन्ते भविष्यन्ति ।
The royal swans, having their delight dispelled owing to the enhancement of their longings, having a very slow movement (flying very slowly ), keeping silence, possessing staggering motion ( going unsteadily), having their faces turned downwards, spreading all over the quarters, resembling you and resorting to the sky (lit. having recourse to the way of wind) along with you, would become your associates in the sky.
५३
Jain Education International
भोक्तुं दिव्यश्रियमनुमतां यातुकामो द्युलोकं कालक्षेपादुपरम रणे मङ्क्षु सन्नद्य भिक्षो । नामुत्र स्पृहयसि दिवे यश्च संरक्षति त्वां
आपृच्छस्व प्रियसख ममुं तुङ्गमालिङ्ग्य शैलम् ॥ ४५ ॥
अन्वयः
हे भिक्षो ! दिव्यश्रियं भोक्तुं द्युलोकं यातुकामः रणे मक्षु सन्ना कालक्षेपात् उपरम । येन अमुत्र दिवे स्पृहयसि यश्च त्वां संरक्षति ( तं ) अमुं प्रियसखं तुङ्गं शैलं आलिङ्ग्य आपृच्छस्व ।
भोक्तुमित्यादि । हे भिक्षो यते अभिमतां अभीष्टां दिव्यश्रियं स्वर्गभवां
For Private & Personal Use Only
www.jainelibrary.org