SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [ पार्धाभ्युदये ___ अन्वयः- स्फीतोकण्ठाविगलितमदाः मन्दमन्दायमानाः मूकीभूताः स्खलितगतयः अनुन्मुखाः सन्तताशाः त्वां अनु पवनपदवीं आश्रयन्तः अनुरूपाः एते राजहंसाः नभसि भवतः सहायाः सम्पत्स्यन्ते। स्फीतेत्यादि। स्फीतोकण्ठाविगलितमदाः। स्फीताः वृद्धि प्राप्ताः श्च ताः उत्कण्ठाः उन्मनायितानिच स्फीतोत्कण्ठाः। ताभिः विगलिताः विलयं प्राप्ताः मदाः इन्द्रियदर्पाः मुदः येषां ते । हेतुगर्भमेतद्विशेषणं । तेषां स्फीतोत्कण्ठत्वाद्विगलितमदत्वात् मन्दमन्दायमानत्वं व्यञ्जयति । मन्दमन्दायमानाः । मन्दीभूतगतयः। मन्दप्रकारः मन्दमन्दः । 'प्रकारे गुणोक्तेवा' इति गुणोक्तेः प्रकारेऽर्थे द्वैधीभावः यवच्च कार्यम् । अमन्दमन्दः मन्दमन्दः भवति मन्दमन्दायते । 'डाउलोहितादिभ्यः' इति क्यः लोहितादेराकृतिगणत्वात् । 'क्यषो वा' इति दः । शानच्च । मूकीभूताः । अमूकाः वाचालाः अपि मूकाः भूताः सम्पन्नाः मूकीभूताः । मूकभूयं प्राप्ताः । 'अवाचि मूकः ' इत्यमरः । 'मूकस्त्ववाङ्मतो दीने ' इति विश्वलोचने । स्खलितगतयः स्खलिताः सस्खलनाः गतयः गमनानि येषां ते स्खलितगतयः । गमने सजातस्खलनाः इत्यर्थः । अनुन्मुखाः न्यक्कृतमुखाः। उद्गतं मुखं येषां ते उन्मुखाः । न उन्मुखाः अनुन्मुखाः । अधोनियमितदृशः इत्यर्थः । सन्तताशाः । समन्तात् तताः व्याप्ताः आशाः दिशः यः ते सन्तताशाः। व्याप्तदिङ्मण्डलाः इत्यर्थः । त्वां अनु त्वया सह । 'भार्थेऽनुना' इति इप् । पवनपदवीं। पवनस्य प्रभञ्जनस्य पदवी गमनमार्गः । तां । व्योममार्गमिति भावः। आश्रयन्तः । प्राप्नुवन्तः । अनुरूपः स्वत्तुल्यरूपाः । भवन्तमनुकुर्वाणाः इत्यर्थः । 'पश्चात्सादृश्य-योरनु' इत्यमरः । 'अनु स्वनुक्रमे हीने पश्चादर्थसहार्थयोः । आयामेऽपि समीपार्थे सादृश्ये लक्षणादिषु ' इति विश्वलोचने । यथा भवान् मोक्षसुखप्राप्त्यर्थ सञ्जातोकण्ठः सन् विगलितात्ममोहनस्वभावक्रोधादिकवायः तथा ते राजहंसाः अपि वृद्धिंगतयोत्कण्ठया विलीनानन्दथवः । भगवत्पक्षे मदशब्दः क्रोधादीनामुपलक्षणमित्यवसेयम् । 'मदो मृगमदे मद्ये दानमुद्गर्वरेतसि' इति विश्वलोचने । यथा भवान् मोक्षार्थं घृतमुनित्रतत्वात् मन्दमन्दायमानः संसारवर्धनीषु क्रियासु मन्दतमोद्यमः तथा एते राजहंसाः अपि मन्दमन्दायमानाः कामोन्मादत्वादलसगमनाः । यथा भवान् थ्याननिमग्नत्वात् मूकीभूतः विरत. वचनव्यापारः. उपलक्षणेन परिहृतेन्द्रियव्यापारः तथा ते हंसाः कामसन्तप्तत्वात् व्यक्तशब्दायिताः । यथा भवान् आसन्नतममोक्षत्वात्स्खलितगतिः स्खलिताः विनष्टाः गतयः नारका दिगतयः यस्य सः । ] विनष्टचतुर्गतिभ्रमणः, तथैते राजहंसाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy