SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] तेन यक्षेश्वरस्य कुबेरस्येत्यर्थः । धाम निवासस्थानम् । 'धाम रश्मौ गृहे देहे प्रभावस्थानजन्मसु' इति विश्वलोचने। जिगमिषोः गन्तुमिच्छोः । 'तुमीच्छायां धोर्वोप्' इति सन् धोश्चोए । तव ते आसमन्तात् सर्वासु दिक्षु । सर्वतः इत्यर्थः । जलमुचां मेघानां । जलं मुञ्चन्तीति जलमुचः । किम् । पथि मार्गे आपतन्तः उड्डीयमानाः । बिसकिसलयछेदपाथेयवन्तः। बिसानां मृणालानां किसलयानि अग्राणि पल्लवाः बिसकिसलयानि । 'मृणालं बिसं' इति 'पल्लवोऽस्त्री किसलयं' इति चाऽमरः । तेषां च्छेदाः शकलाः एव पाथेयं विसकिसलयच्छेदपाथेयं । पथि साधु पाथेयं । 'पथ्यतिथिवसतिस्वपतेर्ट' इति ढञ् । तदस्त्येषामिति बिसकिसलयच्छेदपाथेयवन्तः। 'न कर्मधारयान्मत्वर्थीयः बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः' इत्यत्र 'विसकिसलयच्छेदपाथेयाः' इत्यस्य बबीहेः कर्मधारयार्थप्रतिपत्तिकरस्य. सद्भावात् मत्वीयस्य वतोः प्रयोगः प्रामादिकः प्रतिभाति । मलिनाथस्तु बिसकिसलयच्छेदैः पाथेयवन्तः इत्यूचिवान् । ते च हंसाः मानससरोनिवासिनः शुभ्रापधनाः पक्षिविशेषाः । नवजलधरैः नवैः नव्यैरविगलितजलत्वाज्जलभारननैः जलधरैः मेघैः उन्मनीभूय। अनुन्मनसः सम्पद्यमानाः भूत्वोन्मनीभूय । उत्कण्ठिताः भूत्वेत्यर्थः। आकैलासात् कैलासाभिधपर्वतपर्यन्तं । कैलासपर्वतं यावदित्यर्थः । 'आमर्यादाभिविध्योः' इति मर्यादायामात्र । 'काऽऽडाऽभिविधिमर्यादे' इत्याडा योगे मर्यादायां का। सङ्गच्छन्ते सङ्गताः भविष्यन्ति । 'गमो सम्प्रच्छिस्त्रच्छिश्रुविदृशः' इति दः । मरणानन्तरमलकामार्गेण स्वर्गभुवं यियासोस्ते हंसाः आकैलासात् सहायी भूताः मार्गे त्वामानन्दकन्दलितस्वान्तं विघास्यन्तीति भावः । Those swans, flying in the sky, the way of the clouds on all sides of you who would be desirous of going to the aboclo of the lord of the Yakshas on tho ground of my truthfulness, possessing bits of the shoots of lotus-stalks as provendor for the journey, would, having become anxious on account of the new clouds, surely accompany you up to the Kailas mountain. स्फीतोत्कण्ठाविगलितमदा मन्दमन्दायमाना मूकीभूताः स्खलितगयोऽनुन्मुखास्सन्तताया। त्वामन्वेते पवनपदवीमाश्रयन्तोऽनुरूपाः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy