________________
[ पार्श्वाभ्युदये
उत्त्रस्ताः भयाकुलाः । मन्दमन्दं । मन्दप्रकारः मन्दमन्दः । मन्दमन्दाः यथा स्युस्तथा मन्दमन्दं । मन्दप्रकारेणेत्यर्थः । 'प्रकारेण गुणोक्तेर्वा ' इति गुणोक्तेः प्रकारेऽर्थे द्वैधीभावः यवच्च कार्य । प्रयान्तः गच्छन्तः । धवलितदिशः धवलयति धवलं करोति । ' तत्करोति तदाचष्टे' इति णिच् । धवलयति स्म धवलिताः शुभ्रीकृताः । धवलिताः शुभ्रीकृताः दिशः काष्ठाः यैस्ते धवलितदिशः । ' वलक्षो धवलोऽर्जुनः' इति ' दिशस्तुककुभः काष्ठाः' इति चामरः । अभी एते मन्दसानाः हंसविशेषाः । गगनं अभितः गगनं परितः । गगने सर्वासु दिवित्यर्थः । ' पर्यभिसर्वोभयैस्तस्त्यैः ' इत्यभितः इत्यस्य तस्त्यान्तत्वात् तद्योगे इप् । स्वनन्तः ध्वनिं कुर्वन्तः । दृश्यन्ते अवलोक्यन्ते । दृक्पथमवतरन्तीत्यर्थः । पश्य अवलोकय । कमठचरेणाऽकाले विक्रियदयत्पादितानां मेघानां प्रावृषेण्यमेघतुल्यत्वात् सञ्जातप्रावृट्काल भ्रान्तयः हंसा: मानसमभिगन्तुमुन्मनायिताः इत्यर्थः । अनेन प्रावृषेण्य मेघतुल्याम्बुददर्शनजनितभ्रान्तिहंसानां मानसार्थमुन्मनावितानामुड्डीयाकाशे गत्वा ध्वनतां व्यावर्णनेन कालवर्ण मेघैराक्रान्तत्वान्नभस्तलस्य तत्कालस्य वर्षाकाल तुल्यत्वं ध्वनितमित्यवसेयम् ।
५०
Behold those swans, eager for the Manasa-lake on hearing that thundering sound, delightful to the ears, of the clouds which are like those of the autumnal season, terror-striken, with their delight dispelled on account of the eager desire cherished by them, moving very slowly, whitening the quarters, are seen warbling in all directions of the sky.
ते चाऽवश्यं नवजलधरैरुन्मनीभूय हंसा
मत्प्रामाण्यात्तव जिगमिषोर्धाम यक्षेश्वराणां । सङ्गच्छन्ते पथि जलमुचामापतन्तः समन्तात् आकैलासादिस किसलयच्छेद पाथेयवन्तः ॥ ४३ ॥
अन्वयः - मत्प्रामाण्यात् यक्षेश्वराणां धाम जिगमिषोः तव आसमन्तात् जलमुचां पथि आपतन्तः बिस किसलयच्छेदपाथेयवन्तः ते च हंसाः नवजलधरैः उन्मनीभूय आकैलासात् सङ्गच्छन्ते ।
ते चावश्यमित्यादि । मत्प्रामाण्यात् प्रमाणस्य भावः प्रामाण्यं । प्रामाण्यं सत्यवादित्वमित्यर्थः ' प्रमाणमेकतेयत्तादेतियन्तृप्रमातृषु । सत्यवादिनि नित्ये च मर्यादाहन्तुशास्त्रयोः इति विश्वलोचने । मम प्रामाण्यं सत्यवादित्वं मत्प्रामाण्यं । तस्मात् । यक्षेश्वराणां । यक्षाणां गुह्यकानां ईश्वराः अधिपतयः यक्षेश्वराः । तेषां । अत्र आदरार्थे बहुवचनम् ।
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org