SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] ४९ गर्जितं श्रोतुं योग्यो भवसि । ते मेघाः मया भवन्तं ध्यानात् प्रच्यावयितुं उत्पादिताः, न प्रावृट्कालभवाः इति भगवन्तं गम्भीरगर्जितैः सजलैरकालभावितैः कृष्णवर्णैर्भीषणैर्मेधैः पीडयितुमिच्छोः कमठचरयक्षस्याऽभिप्रायोऽयम् । Moreover, oh sage! you, seeing the clouds causing disturbance of your unmatched tranquillity of your mind, deserve to hear out of season the terrible thundering that would make the peacocks dance with their necks raised upwards for crying for a long time on the mountains and that which has the capacity of making the earth, having mushrooms grown up and productive. पश्योत्रस्ता धवलितदिशो मन्दमन्दं प्रयान्तः श्यन्तेऽमी गगनमभितो मन्दसानाः स्वनन्तः । बद्धोत्कण्ठोद्विगलितमदाः प्रावृषेण्याम्बुदानां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ॥ ४२ ॥ अन्वयः we - प्रावृषेण्याम्बुदानां श्रवणसुभगं तत् गर्जितं श्रुत्वा मानसोत्काः बद्धोत्कण्ठोद्विगलितमदाः उत्त्रस्ताः मन्दमन्दं प्रयान्तः घवलितदिशः अमी मन्दसानाः गगनं अभितः स्वनन्तः दृश्यन्ते पश्य । पश्येत्यादि । प्रावृषेण्याम्बुदानां । प्रावृषि भवाः प्रावृषेण्याः । 'प्रावृष एण्यः इति एण्यत्यः । प्रावृट्कालभवाः इत्यर्थः । प्रावृषेण्याः इव प्रावृषेण्याः । ' देवपथादिभ्यः' इतीवार्थस्य कस्योस् । पूर्वश्लोकोक्तस्य ' अकाले ' इति पाठस्य दर्शनात् कमठचरेण तेषामकाले एव भगवन्तं पीडयितुं विक्रियर्व्युत्पादितत्वात् प्रावृषेण्यत्वासम्भवात् प्रावृघेण्यतुल्यत्वं तेषां व्युत्पत्त्या प्रदर्शितमित्यवसेयम् । प्रावृषेण्याः प्रावृटकालभवाश्च ते अम्बुदा मेघाश्च प्रावृषेण्याम्बुदाः । तेषां । श्रवणसुभगं । श्रवणयोः आनन्दप्रदत्वात् सुभगं मनोहरं । श्रवणानन्दजननमित्यर्थः तत् अकालजनितमेोद्भावितं गर्जितं स्तनितं । गर्जनध्वनिमित्यर्थः । श्रुत्वा श्रवणविषयतां नीत्वा । मानसोत्काः । मानसे मानसाभिधाने सरसि उत्काः उत्कण्ठिताः । ' स्यादुत्क उन्मना ' इत्यमरः । कालिमाङ्कितसजलजलददर्शनजनितप्रावृट्कालभ्रान्त्या उत्तरदिक्स्थितं मानससरः गन्तुमुन्मनायिताः इत्यर्थः । बद्धोत्कण्ठाद्विगलितमदाः । बद्धया विरचितया उत्कण्ठया उन्मनायितेन । मानसं सरः गन्तुं सञ्जातयोत्कण्ठयेत्यर्थः । तया उद्विगलितः नष्टः मदः आनन्दः येषां ते । ' उत्क ठोकालिके समे. ' इत्यमरः ' मदो मृगमदे मधे दानमुद्गर्वरेतास' इति विश्वलोचने । पार्श्वाभ्युदये...४ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy