SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [पार्धाभ्युदये The female cranes, drawn up into lines ownig to their doubting you for a watery cloud when you, seated in a celestial car, would be flynig high up in the sky accompanied with the sounds of drums which would resemble your thundering, would be waiting upon you, enjoynig sound sleep caused by a swoon, wearing a garland of Mandar flowers and delightful to the eye. योगिन् पश्यंस्त्वदतुलधृतेर्भङ्गहेतून् पयोदां. स्तद्गम्भीरध्वीनतमपि च श्रोतुमर्हस्यकाळे । केकोद्ग्रीवाशिखरिषु चिरं नर्तयेद्यन्मयूरान् कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम् ॥ ४१ ॥ अन्वयः- अपि च योगिन् । त्वदतुलधृतेः भगहेतून् पयोदान् पश्यन् ; यत् केकोद्ग्रीवान् मयूरान् शिखरिषु चिरं नर्तयेत् च महीं उच्छालीन्ध्रां अवन्ध्यां कर्तुं प्रभवति तत् गम्भीरध्वनितं अकाले श्रोतुमर्हसि । __ योगिनित्यादि । अपि च किं च योगिन् भो ध्याननिमग्न तपस्विन् । त्वदतुलधृतेः । अतुला निरुपमा चाऽसौ धृतिः शमश्च अतुलधृतिः । तव अतुलधृतिः त्वदतुलधृतिः । तस्याः। भङ्गहेतून् । भङ्गस्य नाशस्य प्रक्षोभस्य हेतवः कारणानि । प्रक्षो. भजननकारणानि । पयोदान् मया विक्रियोत्पादितान् मेघान् पश्यन् अवलोकयन्। यत गम्भीरगर्जितं केकोदग्रीवान् । केकया मयूरध्वनिविशेषेण हेतुना उद्ग्रीवान् उन्नमितकन्धरान् । उद्गता ग्रीवा कन्धरा येषां तान् । 'केका वाणी मयूरस्य' इति 'अथ ग्रीवायां शिरोधिः कन्धरेत्यपि' इति चाऽमरः । मेघालोके केकोद्भावनार्थमुन्नमितकन्धरानित्यर्थः । मयुरान् बहिणः चिरं चिरकालं नर्तयेत् नृत्यं कारयेत् । नाटयेदित्यर्थः । यत् च उच्छीलीन्ध्रां उद्गतकवकां । कवकं विडुत्करजं छत्राकारधारि मलिनवर्ण वनस्पतिविशेषरूपं । 'शिलीन्ध्रस्तु पुमान्मीनभेदे वृक्षप्रभेदयोः । शिलीन्ध्र कवचे रम्भा पुष्पत्रिपुटयोरपि' इति विश्वलोचने। 'विड्जानि कवकानि च ' इति कश्चित् । “तदुक्तंनिमित्तनिदाने 'कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्नसस्यां कथयन्ति धात्रीम्" इति मेघदूतकाव्यटीकायां मल्लिनाथः । अवन्ध्यां सफलां । ' वन्ध्योऽफलोऽवकेशी च' इत्यमरः। कर्तुं विधातुं प्रभवति सामर्थ्यसम्पन्नं भवति । तत् गम्भीर• ध्वनितं । गम्भीरं च तद्ध्वनितं च गम्भीरध्वनित। अकाले प्रावट्कालादन्यस्मिन् काले श्रोतुं श्रवणाय अर्हसि योग्यो भवसि । मयाऽकाले विक्रियोत्पादितानां मेघानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy