SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] battle-field where warriors die while fighting), then the Vidyadhara females, forming rows in the sky, on account of the enhancement of their joy derived from the sustainment of the embryo that used to fall off orring to the ripening of the Karman conditioned by their good deeds, will wait upon you. मूर्छासुप्तं त्रिदशनिहिताम्लानमन्दारमालं तूर्यधानस्तनितमुखरं दिव्ययानाधिरूढं । द्यामुद्यन्तं सजलजलदाशङ्कयाऽऽबद्धमाला: सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ४०॥ अन्वयः-- मूर्छासुप्तं त्रिदशनिहिताम्लानमन्दारमालं दिव्ययानाधिरूढं नयनसुभगं तूर्यध्वानस्तीनतमुखरं द्यामुद्यन्तं भवन्तं सजलजलदाशङ्कया आबद्धमालाः बलाकाः खे सेविष्यन्ते । मूछेत्यादि । मूर्छासुप्तं मूर्च्छया मत्प्रहारसञ्जनितमोहेन सुप्तं प्रशान्तचैतन्याविष्कारसाधनीभूतक्रियत्वात् सुप्तः इव सुप्तः तम् । त्रिदशनिहिताम्लानमन्दारमालं। त्रिदशैः देवैः निहिता गले निक्षिप्ता अम्लानानां प्रत्यग्राणां मन्दाराणां कल्पवृक्षकुसुमानां मालाः दामानि यस्मिन् सः । तम् । 'अमरा निर्जरा देवास्त्रिदशा विबुधेश्वराः' इत्यमरः। मन्दाराणां मन्दारकुसुमानां इत्यर्थः । 'पुष्पमूले बहुलम्' इति पुष्पत्यस्योस् । 'मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्व' इत्यमरः । नयनसुभगं । नयनयोः नेत्रयोः सुभग आनन्दजनकत्वान्मनोहरं । दिव्ययानाधिरूढं। दिवि भवं जातं वा दिव्यं । 'युप्रात्प्रत्यपाग्भ्यां यः' इति जातभक्योरर्थयोः यः। दिव्यं च तद्यानं वाहनं च दिव्ययानं । तत् अधिरूढः दिव्ययानाधिरूढः । तम् । तूर्यध्वानस्तनितमुखरं। तूर्य दुन्दुभितुल्यमानद्धं वाद्य । तस्य ध्वानाः ध्वनयः एव स्तनितानि गर्जितानि तैः मुखरः वाचालितः गर्जितध्वनियुक्तः यथा स्यात् तथा। इसः । मरुभूतिचरस्य पार्श्वभगवतः युद्धे हतस्य सतः स्वर्गगमनकाले देवसन्ताडितदुन्दुभ्यानद्धवाद्यविशेषध्वानानां गर्जिततुल्यत्वात् तद्ध्वनिभिः सर्जितं यथा स्यात् तथा । हसः । धां स्वर्गभुवं आकाशमार्ग वा उद्यन्तं उद्गच्छन्तं भवन्तं पार्थाभिधानं त्वां सजलजलदाशङ्कया जलेन सह सजलः । सजलश्चसौ जलदः मेघश्च तस्य आशङ्कया सन्देहेन । अयं जलदः सजलः भवेदिति संशयेन। आबद्धमाला: । आबद्धाः विरचिताः मालाः पङ्क्तयः याभिस्ताः । बलाकाः । बलाहकान् मेघान् कायन्तीति बलाकाः । बिसकण्ठिकाः इत्यर्थः । 'बलाका बिसकण्ठिका' इत्यमरः । खे आकाशे । सेविष्यन्ते भजिष्यन्ते। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy