________________
.
४६
[ पार्श्वाभ्युदये
`वान् वीरशय्यां श्रितः स्याः तदा पुण्यपाकात् विनङ्क्ष्यगर्भाधानक्षणपरिचयात् नभसि आवद्ध मालाः विद्याधर्यः त्वां वृणते ।
युद्धे शौण्ड इत्यादि । यदि च युद्धे सङ्ग्रामे शौण्डः प्रवीणः । ज्योत्स्नादः प्रयोगगम्यत्वात् शुण्ड | शब्दात् ' ज्योत्स्नादिभ्योऽण्. ' इत्यण् । स्वर्गस्त्रीणां स्वर्गाड़नानां अहमहमिका अहमधिकाऽहमधिकेति तुल्यसौन्दर्यादीनां स्पर्धा | 'ब्रीह्यादिभ्यः' इति ठः । ' मयूरव्यंसकादयश्च ' इति सः । ' अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः ' इत्यमरः । संविधास्यन् कारयिष्यन् । भगवान् ध्यानैकतानः महामुनिः श्रीपार्श्वजिनेन्द्रः वीरशय्यां वीराणां दीर्घशयनाधिकरणभूतां समरभूमिं । शयितें अस्यामिति शय्या | वीराणां शय्या दीर्घनिद्रानुभवनस्थानं वीरशय्या । तां । श्रितः आश्रितः । प्राप्तः इत्यर्थः । स्याः भवेः ! समरभूमौ मृतानां वीराणां तत्रैवावधि शयितत्वात् समरभूमेः वीरशय्येति चरितार्थं नामान्तरं । तेन युध्यमानः मरणं प्राप्तश्चेद्भवानित्यर्थः । युद्धे मृतस्य ते व्योममार्गेण गच्छतः विद्याधरस्त्रियः देवस्त्रियश्च भवन्तमाकाशप्रदेशे सेविष्यन्ते । ततश्च ते महत्सुखं भविष्यति । स्वर्गसुखार्थे तपस्यतस्ते युद्धभूमौ मरणे जाते सति अपि तत्तादृशमेव सुखमुत्पस्येत । ततः सञ्जातसमाधिभङ्गस्य समरभूमौ मृतस्य सुखं नोत्पत्स्यते इति मा मंस्थाः । अतः समाधिं परित्यज्य युयुत्सोरपि ते न काऽपि क्षतिरिति मनसिकृत्य युद्धसन्नद्धो भव त्वमिति कमठचरयक्षाभिप्रायः । ' जातुयद्यदायदौ लिङ् ' इति लिङ् यदि शब्दस्यात्र प्रयोगात् । तदा वीरशय्याश्रयणकाले पुण्यपाकात् पुण्यकर्मणः पाकात् उदयात् विनइक्ष्यगर्भाधानक्षणपरिचयात् । विनङ्क्ष्यंश्वासौ गर्भश्च विनङ्क्ष्यद्गर्भः । तस्य आधानं स्थिरीभावः । तस्य क्षणः आनन्दः । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः तस्य आनन्दस्य परिचयः वृद्धिः । तस्मात् । गर्भधारणोत्तरकाले तस्य आधानानन्तरं पूर्व पतनशीलस्याधुना त्वद्दर्शनकाले स्थिरीभवनात् समुत्पन्नस्य मोदस्य वृद्धेरित्यर्थः । नश अदर्शने ' इत्यस्माद्धो: ' स्यतासी लृल्वो:' इति लृट्स्यत्ये " नश्मज्जेर्झील ' इति नुमि च रूपम् । आबद्धमालाः । आबद्धाः विरचिताः मालाः पङ्क्तयः याभिस्ताः । विरचितपङ्क्तयः कण्ठविरचितपुष्पमालाः वेत्यर्थः । विद्याधर्यः विद्याधरस्त्रियः । त्वां भवन्तं नभसि व्योम्नि वृणते सेविष्यन्ते । 'वर्तमानसामीप्ये वर्तमानवद्वा ' इति वर्तमानसामीप्ये वर्तमानप्रयोगः ।
.
6
If at all you, setting a competition between the heavenly ladies (i. c. damsels ) afoot, skilled in warare ( or a vetaran warrior ), will have recourse to the battle-field which forms a bed for warriors (i. e.
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org