SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] < ८ इति वा णिच् । ध्यानावस्थां विमुञ्चेत्यर्थः । मे मह्यं युद्धक्षणं समरानन्दं । अथ क्षण उद्धर्षो मद्द ऊद्धव उत्सवः ' इत्यमरः । ` हे वितर । दानात् अन्यत् दानाद्भिन्नं । ' स्वस्यातिसर्गो दानं ' इति शास्त्रक्तं दानलक्षणं । देहिनां श्लाध्यं प्राणिभिः प्रशंसनीयं । ' व्यस्य वा कर्तरि ' इति श्लाघ्यशब्दस्य व्यान्तत्वात् देहिनामिति तान्तस्य प्रयोगः । ' श्लाकत्थने ' इत्यस्य धोर्व्यान्तं रूपं । सुकृतं पुण्यं कर्म । शोभनं कृतं कर्म सुकृतं । नास्ति न वर्तते । खलु एव । खलु स्याद्वाक्यभूषायां खलु वीप्सानिषेधययोः । निश्चिते सान्त्वने मौने जिज्ञासादौ खलु स्मृतम्' इति विश्वलोचने । इदं दानात् अन्यत् देहिनां श्लाघ्यं नास्तीतीदं । ननु एव । ननु प्रश्नेऽवधारणे । नन्वनुज्ञावितर्काऽऽयमन्त्रेष्वनुनये ननु ' इति विश्वलोचने । दानशीलाः दानस्वभावाः । दानं मदजलं शीलयन्ति प्रादुर्भावयन्तीति दानशीलाः इति गजपक्षे | दानं जलप्रदानं शीलं स्वभावो येषां ते दानशीलाः इति मेघपक्षे । वनगजाः आरण्यकाः हस्तिनः । तथा अपि च । ' तथा सादृश्य निर्देश निश्चयेषु समुच्चये ' इति विश्वलोचने । तथेति समुच्चयेऽत्र । अब्दाः मेघाः । आपः जलं ददतीति अब्दाः | शंसन्ति प्रथयन्ति । प्रकटीकुर्वन्तीत्यर्थः । यः मधुरं नदति यः मधुरं शब्दं करोति सः अयं ते वामः तत्र वामभागे स्थितः । ( सव्ये हरे कामे घने वित्ते तु न द्वयोः , इति विश्वलोचने । वामस्तु रुचके रम्ये सव्ये वामस्थितेऽपि च ' इति शब्दार्णवे । सगन्धः सामोदः । सानन्दः इत्यर्थः । C वाम , C धो गन्ध सम्बन्धलेशेष्वामोदगर्वयोः ' इति विश्वलोचने । 'सुगन्धिमुदि वामोदः इति विश्वलोचने । चातकः पक्षिविशेषश्च । इदं शंसतीति शेषः । Oh sage! give up, therefore, your meditation; give me the pleasure of fighting. Nothing other than munificence is indeed pious and worthy of being highly praised by living beings. The sylvan elephants and the clouds, who are naturally in the habit of giving away, indeed, declare this. This delightful Chataka bird, singing a delightful song on your left side also declares this. युद्धे शौण्डो यदि च भगवान् वीरशय्यां श्रितः स्याः स्वर्गस्त्रीणामहमहमिकां संविधास्यंस्तदा त्वाम् । विद्याधर्यो नभसि वृणते पुण्यपाकाद्विनङ्क्ष्यगर्भाधानक्षणपरिचयातून माबद्धमालाः ॥ ३९ ॥ यदि च युद्धे शौण्डः, स्वर्गस्त्रीणां अहमहमिकां संविधास्यन् भग अन्वयः ४५ Jain Education International ------ For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy