________________
प्रथमः सर्गः ]
३५
दिव्ये याने त्रिदिववनितालिङ्गितं व्योममार्गे
सन्माणिक्याभरणकिरणद्योतिताङ्गं तदानीम् । गां गच्छन्तं नवजलधराशङ्कयाऽधः स्थितास्त्वां
प्रोक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ॥ ३० ॥ अन्वय :- तदानीं व्योममार्गे दिव्ये याने त्रिदिववनितालिङ्गितं सन्माणिक्याभरणकिरणद्योतिताङ्ग गां गच्छन्तं अधः स्थिताः पथिकवनिताः नवजलधराशङ्कया प्रत्ययात् आश्वसन्त्यः त्वां प्रेक्षिष्यन्ते ।
दिव्ये याने इत्यादि। तदानीं त्वद्गमनसमये व्योममार्गे आकाशमार्गे 'द्योदिवौ द्वे स्त्रियामनं व्योम पुष्करमम्बरं । नभोन्तरिक्षं गगनमनन्तं सुरवम खम्' इत्यमरः। त्रिदिववनितालिङ्गितं त्रिदिवे स्वर्गे निवसन्त्यः वनिताः स्त्रियः त्रिदिववनिताः। ताभिः स्वर्गस्त्रीभिः आलिङ्गितं । उपगूढं त्रिदिववनितालिङ्गितं । देवाङ्गनोपगूढमित्यर्थः 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः। सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इत्यमरः। सन्माणिक्याभरणकिरणद्योतिताङ्ग। सन्ति शोभनानि च तानि माणिक्यानि च सन्माणिक्यानि । तैः निर्मितानि आभरणानि भूषणानि सन्माणिक्याभरणानि । तेषां किरणैः रश्मिभिः द्योतितानि भास्वन्ति अङ्गानि गात्राणि यस्य तम्। 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहितेऽपि सन्' इति अलङ्कारस्त्वाभरणं' इति चाऽमरः। गां स्वर्गभुवं। 'स्वर्गेषु पशुवाग्वनदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । गच्छन्तं यान्तं. भवन्तं अधः भूमिप्रदेशे । स्थिताः स्थितिमत्यः । पथिकवनिताः पथिकानां पान्थानां वनिताः स्त्रियः। पन्थानं याति पथिकः । 'पथष्ठट्' इति पथिशब्दात् ठट् । 'पान्थः पथिक इत्यपि' इत्यमरः । 'स्त्री नारी वनिता मुग्धा' इति धनञ्जयः। नवजलधराशङ्कया। नवश्चासौ जलधरश्च नवजलधरः नवमेघः इत्यर्थः । तस्य आशङ्का सन्देहः । नवजलधराशङ्का । तया। प्रत्ययात् कान्तप्रत्यागमनविश्वासात् तदागमननिश्चयाद्वा। 'प्रत्ययः शपथे हेतौ ज्ञानविश्वासनिश्चये। सन्नाद्यधीनरन्ध्रेषुख्याततत्वाचारयोरपि' इति विश्वलोचने । आश्वसन्त्यः आनन्दिन्यः त्वां प्रेक्षिष्यन्ते भवन्तमालोकयिष्यन्ते । ‘ङ्युगिन्नञ्चोः' इति की।
At that time, the travellers' wives becoming glad owing to their being convinced of their husbands return on account of their having entertained a doubt of a new cloud, will then see you seated in a celestial car in the sky with the damsels embracing you and
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org