SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ३४ [ पार्श्वाभ्युदये therein, giving delight to the couples even at the end of night by quelling greatly the langour brought into being by the matitunal sexual enjoyment, should, therefore, be visited by you. मत्त मृत्युं समधिगतवान् यास्यसीष्टां गतीं तां यस्मिन् काले विधुतसकलोपप्लवस्त्वं सुखेन । द्रष्टारोsधोनियमितदृशो दिव्ययोपास्सतोषाः त्वामारूढं पवनपद मुद्गृहीतालकान्ताः ॥ २९ ॥ अन्वय :--- मत्तः मृत्युं समधिगतवान् विधुतसकलोपप्लवः त्वं यस्मिन् काले तां इष्टां गतिं सुखेन यास्यसि ( तस्मिन् काले ) पवनपदवीं आरूढं त्वां उद्गृहीतालकान्ताः सतोषाः दिव्ययोषाः अधोनियमितदृशः ( सत्यः ) द्रष्टारः । ८ मत्तो मृत्युमित्यादि । मत्तः मत्सकाशात् मृत्युं मरणं समाधिगतवान् प्राप्तवान् विधुत सकलोपलवः । विधुतः विनाशितः सकलः निखिल : उपप्लवः उत्पातः येन सः । — उत्पाते विप्लवे चैव सैंहिकेयेऽप्युपप्लवः' इति विश्वलोचने । त्वं भवान् यस्मिन् काले यदा तां इष्टां अभिलषितां आशंसितां । 'इष्टो ना यागसंस्कारयोगयोः ऋतुकर्मणि । क्लीवं प्रियतमे पूज्येऽप्याशंसितेऽपिं च' इति विश्वलोचने । गतिं उत्तरभवं । स्वर्गमित्यर्थः । सुखेन आनन्देन यास्यसि गमिष्यसि । तस्मिन् काले पवनपद्वीं पवनस्य समीरणस्य पदवी मार्गः । तां । पन्थानः पदवी सृतिः इत्यमरः । आकाशमित्यर्थः । आरूढं प्राप्तं । त्वां भवन्तं । उद्गृहीतालकान्ताः उद्गृहीताः ऊर्ध्वं नीताः अलकानां चूर्णकुन्तलानां अन्ताः अग्राणि याभिः ताः । 'अलका चूर्णकुन्तले' इति विश्वलोचने । सतोषाः तोषेण सहिताः । ' वा नीचः इति सहस्य सः । दिव्ययोषाः । दिवि भवाः दिव्याः । दिव्याश्च ताः योषाश्च दिव्ययोषाः । देवाङ्गनाः । 'स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना । ललना कामिनी योषिद्योषा सीमन्तिनी वधूः ' इति धनञ्जयः । अधोनियमितदृशः । अधः अधस्तनप्रदेशे नियमिते निश्चलीकृते दृशौ याभिस्ताः । सत्यः । द्रष्टारः प्रेक्षिष्यन्ते । दृशेर्लुट् । त्वल्लाभसमुत्सुकाः त्वां प्रेक्षिष्यन्ते इत्यर्थः । , When you, dying a death brought about by me, with all the evils dispelled, will be going happily to that destined place longed for by you, the satisfied leavenly damsels with the ends of their hair held up, will, with their eyes ( or sight) fixed down, have a look at you, climbed high up in the sky. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy