________________
३६
[पार्श्वभ्युदये
with your body illuminated by the rays emanating from ornaments studded with jewels.
the
स्यादाकूतं मम न पुरतः स्वस्थवीराग्रणीर्यः
तिष्ठेदेकं क्षणमिति न तं साम्प्रतं हन्तुमीशः। नन्वेषोऽहं वद भटमतः कीर्तिलक्ष्मीप्रियो वा
कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां ॥३१॥ अन्वय :- यः स्वस्थवीराग्रणीः मम पुरतः एक क्षणं तिष्ठेत् तं साम्प्रतं हन्तुं ईशः न इति न ( इति) आकृतं (ते) स्यात् (चेत् ) एषः अहं ननु ! कः वा भटमतः कीर्तिलक्ष्मीप्रियः विरहविधुरां जायां त्वयि सन्नद्धे ( सति ) उपेक्षेत ?
स्यादाकूतमित्यादि । यः कश्चन पुरुषः स्वस्थवीराग्रणीः। स्वस्थः धैर्यवान् । वीरेषु शरेषु अग्रणीः श्रेष्ठः वीराग्रणीः। 'ग्रामाग्रान्नीः' इति नस्य णः । स्वस्थश्चासौ वीराग्रणीश्च स्वस्थवीराग्रणीः । मम पार्थाभिधस्य मे पुरतः अग्रे । ' स्यात् पुरः पुरतोऽग्रतः' इत्यमरः । तिष्ठेत् वसेत् तं तं पुरुषं साम्प्रतं सम्प्रति। शीघ्रमीत्यर्थः । 'एतर्हि सम्प्रतीदानीमधुना साम्प्रतं ' इत्यमरः । सम्प्रत्येव साम्प्रतं । स्वार्थेऽण् । हन्तुं विनाशयितुं । ईशः समर्थः । न इति न । समर्थोऽस्म्येवेत्यर्थः ' द्वौ नौ प्रकृतार्थ गमयतः' इति न्यायात् । इति ते तव आकृतं अभिप्रायः । 'आकृतमाशयः' इति . कोषः क्षीरस्वाम्युध्दृतः । 'स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः। हृदयं विशिखाकृतं' इति धनञ्जयः। स्यात् भवेत् चेत् एषः अहं एषोऽहं प्रत्यक्षतः तव पुरतः तिष्ठामि । यदि ते स्वस्थवीराग्रणीहननसामर्थ्यमस्ति मामेव जहि । वीरश्रेष्ठास्तु दूरे एव सन्तु । कः वा भटमतः भटैः मतः आदृतः, भटः इति मतः वा। कीर्तिलक्ष्मीप्रियः। कीर्तिश्च लक्ष्मीश्च कीर्तिलक्ष्म्यौ। ते प्रिये यस्य सः 'प्रियः । इति प्रियशब्दस्य पूर्वनिपातस्य वैकल्पिकत्वात् परनिपातः । कीर्तिलक्षयोः प्रिय इति तापसोवा । विरह विधुरां। विरहेण विप्रलम्भेण विधुरा दुःखिता। तां । 'विधुरं विकलेऽन्यवत्' इति विश्वलोचने। जायां कान्तां त्वयि भवति पार्श्वे मरुभूतिचरे सन्नद्धे सज्जीभूते सति । युद्धार्थ कृतपरिकरे सतीत्यर्थः। 'सन्नद्धो वर्मितः सज्जः' इत्यमरः । उपक्षेत उपेक्षां विदध्यात् । मत्कृतापराधजनितेन क्रोधेन निष्कासितस्य मे अद्ययावत् कीर्तिलक्ष्मीभ्यां विरहो जातः। अद्य त्वयाऽमा युयुत्सुरहं यदि त्वां जेष्यामि मे कीर्तिलक्ष्म्योः पुनः प्राप्तिरवश्यं भविष्यतीति न त्वामुपेक्षे इति कमठाभिप्रायः। मम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org