SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] 'अनुकम्पातन्नीत्योः' इत्यनुकम्पाविषयायां सामनीतौ गम्यमानायां कन् । वीरप्रथमगणनां । वीरेषु प्रथमः उत्कृष्टः इति गणना। तां । आप्तुकामः । आप्तुं कामः यस्य सः । 'सम्तुमो मनः कामे' इति तुमो मकारस्य खं । चेत् यदि। पूर्वप्रीत्या । पूर्वस्मिन् मरुभूतिभवे या तव मयि कमठचरे प्रीतिरासीत् तया। मे मम प्रार्थना याचनां विधत्स्व कुरु । सफलां कुर्वित्यर्थः । जातरूपधारित्वादिनाऽनुकम्पनीयामवस्थां प्राप्ते त्वयि वीरप्रथमगणनामाप्तुकामत्वं न सम्भवत्येव । तथापि त्वं वीरप्रथमगणनामाप्तुकामोऽसि चेत् मे युद्धार्थी प्रार्थनां सफलां कुर्विति तात्पर्यम् । त्वा त्वां परमपुरुषं परमं पुरुषं । महात्मानमित्यर्थः । अभियाय ज्ञात्वा प्राप्य वा अद्य अधुना कालात् कालं सन्धि अवकाशं वा प्राप्य । 'प्यखे कर्माधारे' इति प्यखे का। वरं महत् उत्कृष्टं वा । युद्धं सङ्ग्रामं । याचे प्रार्थये। यतः अधिगुणे अधिकगुणे । गुणाधिके इत्यर्थः । याच्या प्रार्थना मोघा विफला न न भवति। अधमे नीचे लब्धकामा सफला न न भवति । त्वमधिगुणोऽसि चेत् त्वया मे प्रार्थनाऽवश्यं सफलीकर्तव्या। नो चेत् तां सफलां विधास्यसि तवाधमत्वं सेत्स्यत्येवेति भावः। यद्वा अधिगुणे मोघा याञ्चा वरं, अधमे लब्धकामा सा न वरं इति मनसि विधाय त्वां परमपुरुषं ज्ञात्वा त्वां युद्धं याचे । अतः परमपुरुषत्वात् त्वया मे प्रार्थना सफलीकर्तव्येति हृदयम् । O you! a veteran soldier, if at all you, therefore, are desirous of your being looked upon as the first among the brave, through your former love for me grant my request. Finding this opportunity, I, taking you to be the highest soul, request you for a good fight. A request made to one possessing superior qualities never turns to ineffectiveness and made to the wretched one to effectiveness. (Or A request made to one possessing superior qualities is rather better, though turned to ineffectiveness, but it, though to effectiveness, is not better when it is made to the wretched one.). जेतुं शक्तो यदि च समरे मामभीक प्रहत्य स्वर्गस्त्रीणामभयसुभगं भावुकत्वं निरस्यन् । पृथ्व्या भक्त्या चिरमिह वहन् राजयुद्ध्वेति रूढिं सन्तप्तानां त्वमसि शरणं तत् पयोदप्रियायाः ॥ २५ ॥ अन्वयः- (हे) अभीक समरे (मां) प्रहृत्य सन्तप्तानां स्वर्गस्त्रीणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy