SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ३० [पार्धाभ्युदये अभयसुभगं भावुकत्वं निरस्यन् , पृथ्व्या भक्त्या 'राजयुद्ध्वा' इति रूढिं इह चिरं वहन् मां जेतुं यदि शक्तः तत् पयोदप्रियायाः त्वं शरणं असि । जेतुमित्यादि । हे अभीक कामुक निर्भय वा । 'अभीको निर्भयारकविकामिषु वाच्यवत्' इति विश्वलोचने । अत्र कामुकार्थस्याऽभीकशब्दस्य ग्रहणमेव युक्तं भाति 'क्षीणक्लेशे सिषिधुषि मतिं किं निधत्तेऽङ्गितत्त्वे । कण्ठाश्लेषप्रणियिनि जने किं पुनरसंस्थे।' इत्यत्र दुष्टाभिप्रायेण कमठचरेण यक्षेण भगवतो ध्यानकतानस्य कामुकत्वस्य ध्वनितत्वात् । कामुकस्य समरव्यापाराभिलाषत्वं न सम्भवति तथापि ते समरव्यापारेऽभिलाषोऽस्तीति चेदिति मनसिकृत्याह समरेत्यादि । समरे रणे प्रहृत्य अस्त्रेण हत्वा सन्तप्तानां त्वद्विरहसञ्जातदुःखानां स्वर्गस्त्रीणां देवाङ्गनानां अभयसुभगं अभयात् त्वत्समागमविषये कुतोऽपि भयाभावात् सुभगं शोभनं भावुकत्वं सुखित्वं निरस्यन् परिहरन् । शुभभावार्जितपुण्यस्य जातरूपधारित्वात् अस्यादिप्रहरणविकलत्वात् युद्धभूमी तव मरणस्याऽवश्यंभावित्वात् त्वत्समागमविषये भयकारणाभावात् समुत्पद्यमानं सुखं त्वया युद्धे मां धनता स्वरक्षणं च कुर्वता देवभूयत्वमप्राप्नुवता निराकृतं भवति। तथा च स्यभिलाषुकस्य कामुकस्य ते स्त्रियः प्राप्त्यसम्भवात् दुःखमेव जायतेति भावः । पृथ्व्या भक्त्या महता प्रेम्णा । 'राजयुवा'। राजानं यक्षं योंधितवान् इति राजयुद्ध्वा । यक्षयोधकः इत्यर्थः । 'राजसहे युधिकोः' इति कनिप् । 'राजा चन्द्रे नृपे शक्रे क्षत्रिये प्रभुयक्षयोः' इति विश्वलोचने। इति एवम्प्रकारां रूढिं प्रसिद्धिं इह अत्र भुवि चिरं चिरकालं वहन् धरन् यदि च मां जेतुं शक्तः समर्थः । असीति शेषः । तत् तर्हि पयोदप्रियायाः पयोदस्य भगवदुपसर्गसर्जने पयोधराकारधारिणो यक्षस्य मम प्रियायाः प्रेयस्याः त्वं भवान् शरणं रक्षिता असि भवति। 'शरणं गृहरक्षित्रोः' इत्यमरः । त्वत्प्रहरणप्रहारप्रहृतजीवितस्य मम मत्प्रियया सम्भवात् मद्विरहजनितमारणान्तिकदुःखस्य परिहृतेः त्वमेव तस्याः प्राणानां रक्षकः भविष्यसीति भावः । Oh libidinous one, attacking me in the battlefield, if you, dispelling the happiness, which, being free from all fears, is growing vigorously or flourishing, of the heavenly damsels, assuming the famous title - Rajayuddhva' [ राजयुद्ध्वा ] for a long time with great delight, are able to defeat me, then you are the saviour of the beloved lady of mine who lias assumed the form of a cloud. याचे देवं मदसिहतिमिः प्राप्य मृत्यु निकारात् मुक्तो वीरश्रियमनुभव स्वर्गलोकेऽप्सरोभिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy