________________
... [पार्धाभ्युदये
परिभवपदं एकधा न प्रापिपः। तेम इति पुनः विधिवशात् कृच्छ्रात् चिरात् लब्धे त्वयि दूरबन्धुः अहं वैरनिर्यातनायां अर्थित्वं गतः ।
येनेत्यादि। येन यस्मात् कारणात् अमुष्मिन् अस्मिन् भवजलनिधौ । भवः संसारः जलनिधिरिव भवजलनिधिः । 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इति सः। यद्वा भवः एवजलनिधिः भवजलानिधिः । तत्र । जलनिधिः सागरः । संसारस्यानाद्यनन्तत्वाद्विपव्द्यालाकुलत्वाच्च सागरोपमत्वम् । पर्यटन परिभ्रमन् । त्वं व्यर्थे स्यर्थे कामिन्यर्थ । आभीक्ष्ण्ये द्विः । प्रमत्तं उन्मत्तं मां परिभवपदं परिभवावस्थां एकधा एकेन प्रकारेण । ' स्वैविधार्थे धा' इति प्रकारार्थे धा। न प्रापिपः न प्रापयसि स्म । अनेकधा प्रापयसि स्मेत्यर्थः । आपयतेलुडो मध्यमपुरुषैकवचनम् । तेन तेन कारणेन । इति इत्थं । अमुना प्रकारेणेत्यर्थः । पुनः भूयः । विधिवशात् दैववशात् । 'नियतिर्विधिः ' इत्यमरः । कृच्छात महता कष्टेन चिरात् चिरकालेन लब्धे प्राप्ते स्वयि भवति मरुभूतिचरे भगवति पार्श्वनाथे। दरबन्धुः। दूरः दूरंगतः बन्धुः। ते पूर्वभवभ्राता यद्वा दूरः बन्धुः सम्बन्धी यस्य सः । बसः। अहं कमठचरो यक्षः । वैरनिर्यातानायां वैरशुद्ध्यर्थं । ' वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा' इत्यमरः । अर्थित्वं याचकत्वं गतः प्राप्तः। अस्मीति शेषः ।
As you, moving in the ocean – like world, did not insult me in one way only who had gone mad after females, I, whose relative is abroad request you who are fortunately found after a long time with a great difficulty, for the sake of taking a bloody vengeanco ( upon you ).
तस्माद्वीरप्रथमगणनामाप्तुकामस्त्वकं चेत्
पूर्वप्रीत्या सुभट ! सफलां प्रार्थनां मे विधत्स्व । कालाद्याचे परमपुरुषं त्वाऽभियायाऽद्य युद्धं
याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ २४ ॥ अन्वय :- तस्मात् (हे ) सुभट ! त्वकं वीरप्रथमगणनां आप्तुकामः चेत् पूर्वप्रीत्या मे प्रार्थनां सफलां विधत्स्व । त्वां परमपुरुष अद्य अभियाय कालात् वरं युद्धं याचे । अधिगुणे याचा मोघा न, अधमे लब्धकामा न । यद्वा अधिगुणे मोघा याञा वरं, अधमे लब्धकामा वरं न । .: तस्मादित्यादि । तस्मात् तेन कारणेन । त्वकं। अनुकम्पितः त्वं त्वकं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org