SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] मकारस्य खं । वाचाटत्वं । वाचाटस्य वाचालस्य भावः वाचाटत्वं । यो निस्सारं बहु जल्पति स गर्दायां द्योत्यायां वाचालो वाचाट इति वा निगद्यते । 'क्षिप्यालाटौ' इति गर्हायामाटः । प्रचिकटयिषुः प्रकटीकर्तुमिच्छन् । 'सन्भिक्षाशस्विदिच्छादुः' इति सन्नन्तादुः। भो भो वीर हे शूर यः भवान् त्वं मयि कमठचरे । अल्पमृत्यु । अल्पश्चासौ मृत्युश्च अल्पमृत्युः । तम् । अगात् गच्छति स्म । तं त्वां भवन्तं जातरूपधारिणं । मघोनः इन्द्रतुल्यस्य । मघवा इव मघवा । अनेनारविन्दमहाराजस्य मघवत्तुख्यत्वं इन्द्रेश्वर्यत्वात् । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । यद्वा मघः सुखं अस्याऽस्तीति मघवान् । अथवा महः पूजा अस्यास्तीति मघवान् । स्वप्रजाभिः पूजित इत्यर्थः । हस्य घः। " 'श्वन्नुक्षन्प्लूषन्प्लीहन्क्लेदनूत्रेहन्मूर्धन्मजन्नयमविश्वप्सन्परिजन्मातरिष्वन्मघवन्निति' [उ. १६५ पा.] । 'मह पूजायां'। हस्य घः वुगागमश्च" इति भट्टोजीदीक्षितः । इन्द्रतुल्यैश्वर्यस्यारविन्दमहाराजस्येत्यर्थः। यद्वा लोकैराहतस्यारविन्दमहाराजस्येत्यर्थः । कामरूपं । कामस्य कामदेवस्य रूपमिव रूपं यस्य सः । यद्वा कामरूपमिव रूपं अस्य कामरूपः । तम् । 'ईबुपमानपूर्वस्य द्युखं वक्तव्यं' (जै. वा.) इति उपमानपूर्वस्य रूपशब्दस्य खं । प्रकृतिपुरुषं प्रधानपुरुषं । प्रधानामात्यमित्यर्थः। 'प्रकृतिस्तु सत्त्वरजस्तमसां साम्यमात्रके । स्वभावामात्यपारेषु लिङ्गे योनौ तथाऽऽत्मनि' इति विश्वलोचने । स्फुटं। प्रव्यक्तं यथा स्यात् तथा । 'स्फुटो व्यक्ते प्रफुल्ले च व्याप्तवत् विष्वपि त्रिषु' इति विश्वलोचने । जानामि प्रत्यभिजानामि । इति एवं। अमुना प्रकारेणेत्यर्थः । धीरं। धैर्येण यथा स्यात् तथा। जजृम्भे जृम्भते स्म । भणितुं मुखं व्यात्तवानित्यर्थः । 'जुभी गात्रविनामे' इत्यस्मालिट् । He, desirous of displaying his talkativeness with the intention of exciting again the mind of the sage, opened his mouth to say courageously “O you, a brave one, I have evidently recognised you to be the minister, who had died an untimely death on account of me, and who was as beautiful as the god of love. येनाऽगुष्मिन्मवजलनिधौ पर्यटन नैकधा मां ___ स्त्यर्थे स्व्यर्थे परिभवपदं प्रापिपस्त्वं प्रमत्तम्। कृच्छाल्लब्धे पुनरिति चिराद्वैरनिर्यातनायां तेनार्थित्वं त्वयि विधिषशादूरबन्धुर्गतोऽहम् ॥ २३ ।। अन्वय :---- येन अमुष्मिन् भवजलनिधौ पर्यटन् त्वं स्यर्थे स्त्यर्थे प्रमत्तं मां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy