________________
प्रथमः सर्गः ]
.
सत्यप्येवं परिभवपथे योजयन् स्वं दुरात्मा
मत्यौद्धत्यात् स्वयमुपवहन वारिवाहच्छलेन । मायायुद्धं मुनिपमुपमाक्षीणको दुर्जयोऽयं ..
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे ॥१९॥ अन्वयः- एवं सति दुरात्मा स्वं परिभवपथे योजयन् मत्यौद्धत्यात् स्वयं वारिवाहच्छलेन उपवहन् 'अयं उपमाक्षीणकः दुर्जयः' इति औत्सुक्यात् अपरिगणयन् गुह्यकः तं मुनिपं मायायुद्धं ययाचे ।।
सत्यप्येवमित्यादि । एवं सत्यपि दुरात्मा नीचः । दुष्टः आत्मा यस्य सः दुरात्मा। स्वं आत्मानं । परिभवपथे। परिभवस्य पराभवस्य विनाशस्य वा पन्थाः मार्गः परिभवपथः। 'ऋक्पूरप्पथोऽत्' इत्यत् । योजयन् स्थापयन् । मत्यौद्धत्यात्। मतेः बुद्धेः मनसः वा औद्धत्यात् प्रक्षोभात् कठोरत्वाद्वा । उद्धतस्य भावः औद्धत्यं । 'राजपत्यन्तगुणोक्तिराजादिभ्यः कृत्ये 'च' इति भावे त्यण् । स्वयं
आत्मना। वारिवाहच्छलेन मेघव्याजेन । 'छलं तु स्खलितेऽपि स्यात् व्याजेऽपिच्छलमद्वयोः' इति विश्वलोचनें । उपवहन समीपं गच्छन् युद्धसन्नद्धो वा भवन् । अयं भगवान् । उपमाक्षीणकः। उपमा उपमानं क्षीणं नष्टं यस्य सः। अनुपमानः इत्यर्थः । 'वाहिताग्न्यादिषु' इति सः । दुर्जयः । दुःखेन कृच्छ्रेण जीयते इति दुर्जयः। अजय्यः इत्यर्थः । इति एवं। औत्सुक्यात्। युद्धे इष्टार्थे उद्युक्तत्वात् । 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । अपरिगणयन् अविचारयन् । गुह्यकः कमठचरः यक्षः । 'गुह्यको गोपिते यक्षे' इति विश्वलोचने। तं मुनिपं तं मुनीश्वरं। मायायुद्धं ययाचे। मायया विरचितं युद्धं ययाचे याचते स्म । 'टुयाच याचने' इत्यस्य द्विकर्मकत्वात् 'तं मुनिपं मायायुद्धं ययाचे' इत्यन्वयः । 'दुहियाचिरुधिप्रच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना' इति द्विकर्मकत्वम् ॥ ____ Though it was so, the Yaksha, the wretched soul, placing himself in the range of defeat, himself approaching Him under the disguise of a cloud through insolence of his mind, not taking into consideration *This one, having no standard of comparison, is unconquerable,' through eagerness, implored the lord of wages for a fight which was contrived artificially or falsely.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org