SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [ पार्धाभ्युदवे स्थितिमती च । सा ऋद्धिर्यस्मिन् । तस्मिन् । यद्वा अणिमा आदिः प्रमुखः येषां भेदानां ते अणिमादयः । अष्टौ च ते भेदाश्च अष्टभेदाः। अणिमादयश्च ते अष्टभेदाश्च अणिमाद्यष्टभेदाः। ते स्थिताः यत्र अथवा तैः स्थिता स्थितिमती अणिमाद्यष्टभेदस्थिता । विलसन्ती चासौ अणिमाद्यष्टभेदस्थिता च विलसदणिमाद्यभेदस्थिता । 'पुंवद्यजातीयदेशीये' इति पुंवद्भावः । स्थितं स्थितिः। 'नब्भावेक्तोऽभ्यादिभ्यः' इति क्तः । स्थितमस्या अस्तीति स्थिता। 'ओऽभ्रादिभ्यः' इति मत्वर्थीयोऽत्यः । विलसदणिमाद्यष्टभेदस्थिता ऋद्धिः यस्य सः। बसः। अयं देवः। अयं भगवान् पार्श्वजिनः । क कुत्र। अल्पर्द्धित्वात् । अल्पा अल्पप्रमाणा ऋद्धिः यस्य सः अल्पर्द्धिः । तस्य भावस्तस्मात्। तस्य भाव इत्यस्मिन्नर्थे त्वः। गुरुसुरपशुः । सुरः पशुरिव सुरपशुः । 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इति षसः। गुरुश्चासौ सुरपशुश्च गुरुसुरपशुः । अत्र गुरुशब्देन तस्य पशुत्वस्याऽऽधिक्यं व्यज्यते । व कुत्र । क कुत्र । अद्रिराट् । अद्रीणां राट् राजा अद्रिराट्। मेरुरित्यर्थः। 'राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः' इत्यमरः । क कुत्र । उपलौघः। उपलानां दृशदां ओघः समुच्चयः उपलौघः । 'पाषाणप्रस्तरमावोपलादमानः शिलादृशत्,' 'स्तोमौघनिकरनातवारसवातसञ्चयाः' इत्युभयत्राऽप्यमरः । अस्य कमठचरस्य दैत्यस्य । उद्योगः व्यापारः । क्रियेत्यर्थः । क कुत्र। दुर्विभेदाः। दुःखेन विभिद्यन्ते इति दुर्विभेदाः । ‘स्वीषद्दुसि कृच्छाकृच्छ्रे खः' इति खः। अशक्यभेदना इत्यर्थः । मुनिगुणाः । मुनेः गुणाः मुनिगुणाः। क कुत्र । नु प्रश्ने। 'नु पृच्छायां विकल्पे च' इत्यमरः । मूकः अवाक् । अनेन भगवतो ध्यान निमग्नत्वात् तत्करणानां स्वकार्यकरणे अक्षमत्वं ध्वन्यते। क। पटुकरणैः। पटूनि स्वकार्यकरणक्षमाण करणानि इन्द्रियाणि येषां तैः। प्रापणीयाः प्रापयितव्याः। हरणीयाः नेतुं शक्या इत्यर्थः । 'शकि लिङ् च' इति शक्यर्थे व्योऽत्र । सन्देशार्थाः। सन्दिश्यन्ते इति सन्देशाः। त एवार्थाः सन्देशार्थाः। क । ' सन्देशः प्रिययोर्वार्ता' इति धनञ्जयः। Where this adorable soul whose supernatural power divided into eight parts like minuteness [ अणिमादि] etc., is manifest (and) where that (god) turned into a violent brute on account of possessing superhuman power only partially ? Where the lord of mountains (and) where the heap of stones? Where the exertions of this ( Kamatha and ) where indeed the invincible virtues of the sage? Where the silent (or mute and), where the messages capable of being carried by living beings possessing organs of sense capable of fulfilling their functions. Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy