SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] गम्यते इत्यर्थः । तथा च वक्तारो भवन्ति । अद्य यस्मिन्काले भवान् आयातः श्वः सोऽपि तस्मिन्नेव काले समागमिष्यति । यदि वा यस्मिन्नेव काले क्षणादौ विद्युदादेर्जन्म यदि तस्मिन्नेव काले विनश्येत् नात्मलाभकालाव॑ तिष्ठदित्यर्थः । आकालिका आकालिकी वा विद्युत् आजन्मकालमेव भवन्ती जन्मान्तरविनाशिनी ऊर्ध्वमननुवर्तमाना एवमुच्यते । एवं द्वेधा अपि आदिरेव अन्तः भवति । अथवा निपातनस्येष्टविषयत्वात् समानकालस्याऽऽकालादेशः । उक्तं चाऽत्र विषयेऽभयनन्दिभिर्जनेन्द्रमहावृत्तौ " समानकालावाद्यन्तौ । अस्य आकालिकः स्तनयिलुः ( मेघः)। आकालिकी विद्युत् । यस्तु प्रादिलक्षणे से आकाल इष्टः ‘आवृत्तकालः ईषत्कालः वा आकालः ' इति तस्मात् उञ्च ठश्चेष्यते । आकालिकी आकालिका विद्युत् " [जै. म. वृ. ३।४।१०३ ] । भट्टोजीदीक्षितैरपि कौमुद्यां 'समानकालावाद्यन्तो यस्येत्याकालिकः । समानकालस्याकाल आदेशः । आशुविनाशीत्यर्थः ।' [१७७७।५।२।११४] मेघः बलाहकः । क । अत्र द्वयोर्वैषम्यं विशदीकृतम् । Where this sage, worshipped by all the worlds, possessing soulpower exceedingly difficult to surpass, (and) where this wretched Kamatha, the dovil (or atrociously cruel like a devil ); where the lord of elephants (and) where the gnat; where the excellent meditation with the object of which He was familiarised since very long (and) where the transitory, a compound (or combination) of vapour, fire, water and wind ? काऽयं देवो विलसदणिमाद्यष्टभेदस्थितर्द्धि: काल्पर्द्धित्वाद्गुरुसुरपशुः , क्वाद्रिराट् कोपलौघः। क्कास्योद्योगः क नु मुनिगुणो दुर्विभेदाः, क मूक: सन्देशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः ॥ १८ ॥ अन्वयः- विलसदणिमाद्यष्टभेदस्थितर्द्धिः अयं देवः क अल्पर्द्धित्वात् गुरुसुरपशुः क ? क अद्रिराट् क उपलौघः ? अस्य उद्योगः क दुर्विभेदाः मुनिगुणाः नु क्व ? मूकः क पटुकरणैः प्राणिभिः प्रापणीयाः सन्देशार्थाः क्व ? कायमित्यादि। विलसदणिमाद्यष्टभेदस्थितद्धिः। विलसन्ती आविर्भवन्ती चासौ अणिमाद्यष्टभेदा अणिमाद्यष्टप्रकारा च विलसदणिमाद्यष्टभेदा। सा चासौ स्थिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy