SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ पार्धाभ्युदये . That wretch, a demon, very fond of destruction, increasing his thunderings which were like those of a lion, frightening the sage having stood in His vicinity by his roarings, did not welcome Him with very affectionate words, becoming highly pleased with the sage who had been his brother in the former birth. Alas ! fie upon the fool! काऽयं योगी भुवनमाहितो दुर्विलयस्त्रशक्तिः क्वाऽसौ क्षुद्रः कमठदनुजः, केमराजः क्व दंशः। काऽऽसध्यानं चिरपरिचितध्येयमाकालिकोऽसौ धूमज्योतिः सलिलमरुतां सन्निपातः क मेघः ॥ १७ ।। .. अन्वयः- दुर्विलद्ध्यस्वशक्तिः भुवनमहितः अयं योगी क असौ क्षुद्रः कमठदनुजः क, क इभराजः क दंशः, चिरपरिचितध्येयं आसध्यानं क असौ धूमज्योतिः सलिलमरुतां सन्निपातः आकालिकः मेघः क। कायमित्यादि। दुर्षिलयस्वशक्तिः। दुर्विलध्या कृच्छ्रेण विलध्या विलचितुं शक्या स्वस्य आत्मनः शक्तिः सामर्थ्य यस्य सः। बसः। 'स्वीषद्दुसि कृच्छ्राकृच्छ्रे खः' इति कृच्छ्रार्थे खः । अनिवार्यस्वात्मसामर्थ्यः इत्यर्थः । भुवनमहितः। भुवनेन लोकत्रयेण महितः पूजितः भुवनमहितः। त्रैलोक्यवन्दनीयचरणकमलयुगल: इत्यर्थः। अयं योगी अयं ध्याननिमग्नः मुनिराजः । क कुत्र । असौ सः क्षुद्रः अधमः } 'त्रिषु क्रूरेऽधमेऽल्पेपि क्षुद्रं' इत्यमरः । कमठदनुजः कमठचरः दैत्यः क कुत्र । इभराजः। इभानां गजानां राजा इभराजः। 'राजाहःसखेष्टः' इति टः । क कुत्र । दंशः वनामक्षिका । 'दंशः सन्नाहवनमक्षिकयोर्भुजगक्षते । दोषेऽपि खण्डने दंशो दंशो मर्मणि च स्मृतः ॥' इति विश्वलोचने । चिरपरिचितध्येयं । चिरं चिरकालं चिराद्वा परिचित अभ्यासविषयतां नीतं ध्येयं यस्य येन वा। आसद्ध्यानं । आसमन्तात् शोभनं आसत् । आसत् च तद्ध्यानं च आसध्यानं। धर्म्यशुक्लादिध्यानमित्यर्थः । क कुत्र । धूमज्योतिः सलिलमरुतां सन्निपातः। धूमश्च ज्योतिश्च सलिलं च मरुत् च धूमज्योतिः. सलिलमरुतः । तेषां । सन्निपातः सङ्घातः । धूमज्योतिःसलिलमरुसङ्घातरूपः मेघः इत्यर्थः । आकालिकः आशुविनाशी। 'आकालिकी क्षणचिर्विात्तत्पतिरम्बुदः' इत्यत्र. धनञ्जयेन यद् विद्युत आकालिकीति नामान्तरं सगृहीतं तद् आशुविनाशित्वापेक्षयैव । 'आकालिकं ठश्चाद्यन्ते' इति समानकालशब्दात् आद्यन्तोपाधिकात् ठजं निपात्यः, ठश्च । समानकालस्य 'आकालः' इत्यादेशः । आद्यन्ते इत्यस्य आदिरेव अन्त्यः यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy